१३४ आर्षेयब्राह्मणम्
अभि त्यं मेषम् (सा. ३७६) इत्यत्रैकं साम । अभित्यांमेषं (ग्राम. १०. ३. ३७६. १) इति मन्द्रद्वितीयादिकम् । त्यꣳ सु मेषम् (सा. ३७७) इत्यत्रैकं साम । त्यꣳसूमेषंमहया (ग्राम. १०. ३. ३७७.१) इति मन्द्रद्वितीयादिकम् । एते ऋग्द्वयाश्रिते सामनी मौभरे द्वे। सुभरिणा दृष्टे । अत्रैव विकल्पः । वा अथवा अ (ए?) नयोः ऋग्द्वयाश्रितयोः साम्नोः पूर्वं प्रथमं सोमसाम ॥ ७॥
द्यावापृथिव्योः सामनी द्वे । वरुणसामनी वा ॥४.३.८॥
घृतवती भुवनानाम् (सा. ३७८) इत्यत्र सामद्वयम् । घृतव (ग्राम. १०.३. ३७८.१) इति चतुर्थतृतीयादिकम् आद्यम् । घृतवतीभुवनानाम् (ग्राम. १०. ३. ३७८.२) इति मन्द्रचतुर्थादिक द्वितीयम् । एते द्वे द्यावा- पृथिव्योः सामनी । अथवा वरुणसामनी ॥ ८ ॥
इन्द्रस्य च श्येनः ॥ ४.३.९॥
उभे यदिन्द्र रोदसी (सा. ३७९) इत्यत्रैकं साम । उभेयदिन्द्र- रोदसाइ (ग्राम. १०. ३. ३७९.१) इति मन्द्रचतुर्थादिकम् इन्द्रस्य श्येनः एतन्नामधेयं साम ॥ ९॥
वैरूपं च । च्यावनं वा ॥ ४.३.१० ॥
प्र मन्दिने पितुमर्चता (सा. ३८०) इत्यत्रैकं साम । प्रमंदाइने (ग्राम. १०. ३. ३८०. १) इति द्वितीयतृतीयादिकं वैरूपं यद्वा च्यावनम् । च्यवनो दाधीचः ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ।। अनुष्टुब्भाष्यं समाप्तम् ॥