पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० आर्षेय ब्राह्मणम्

य इन्द्र सोम (सा. ३९४.) इत्यत्रैक साम । यइन्द्रसो (ग्राम. १०.५.३९४.१) इति मन्द्रादिकं (चतुर्थमन्द्रादिकम् ?) आक्षारमेव आक्षरण- साधनं साम । तथा च ब्राह्मणम् – एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापतिराक्षारेणाक्षारयद्यदाक्षारयत् तदाक्षारस्याक्षारत्वम् (ता. बा. ११. ५. १०) इति । अथ वा एतत्साम यामम् ॥ ४ ॥

प्रजापतेश्च दीर्घायुष्यम् ॥ ४.५.५॥

तुचे तुनाय तत्सु नः (सा. ३९५) इत्यत्रैक साम । तुचेतुना (ग्राम. १०. ५. ३९५.१) इति चतुर्थतृतीयादिकं प्रजापतेश्च दीर्घायुष्यम् ॥५॥

भरद्वाजस्य च शुन्ध्युः ॥ ४.५.६॥

वेत्था हि निर्धतीनाम् (सा. ३९६) इत्यत्रैक साम. । वेत्थाहि (ग्राम. १०. ५. ३९६. १) इति चतुर्थमन्द्रादिक भरद्वाजस्य शुन्ध्युः, एतच्छब्दयुक्तं साम । अहरहः शुन्ध्युः परिपदामिव (सा. ३९६) इति विद्यमानत्वात् ॥ ६॥

आदित्यस्यापामीव[म्] ॥ ४.५.७ ॥

अपामीवामप (सा. ३९७) इत्यत्रैकं साम । अपामीवामपा (ग्राम, १०. ५. ३९७.१) इति चतुर्थमन्द्रादिकम् आदित्यस्यापामीवम् । एत- च्छब्दयुक्तं साम ॥ ७॥

इन्द्रस्य वैराजे द्वे । वसिष्ठस्य वा प्रजापतेर्वा सहोदैर्घतमसे वा ॥ ४.५.८॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्र सामद्वयम् । पिबा (ग्राम. १०. ५. ३९८.१) इति मन्द्रचतुर्थादिकम् । हाउपिया (ग्राम. १०. ५. ३९८. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य बैराजे । विराट्छन्दस्सामनी। अथवा बसिष्ठस्य वैराजे । प्रजापतेर्वा सहोदैर्घतमसे । एतत्संज्ञकस्य ऋषेर्वा वैराजे ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये पञ्चमः खण्डः ॥ ५ ॥