पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः अध्यायः (७) १४५

कश्यपस्य च धृष्णु । यामं वा ॥४.७.५॥

प्रेह्यभीहि धृष्णुहि (सा. ४१३) इत्यत्रैकं साम । प्राईही (ग्राम. ११.७. ४१३. १) इति क्रुष्टद्वितीयादिकं कश्यपस्य च धृष्णु । धृष्णुपदयुक्तमेतत्साम । अथवा यामम् ॥ ५॥

मरुतां च संवेशीयम् । सिन्धुषाम वा ॥४.७.६॥

यदुदीरत (सा. ४१४) इत्यत्रैकं साम । यदुदीरातआजयाः (ग्राम. ११. ७. ४१४. १) इति चतुर्थमन्द्रादिकॆ मरुतां च संवेशीयम् । एतन्नामधेयं साम । अथवा सिन्धुषाम तत्साम ॥ ६ ॥

यामे चैव ॥ ४.७.७॥

अक्षन्नमीमदन्त (४१५) इत्यत्रैकं साम । अक्षन्नमीमद (ग्राम. ११.७. ४१५. १) इति तृतीयचतुर्थादिकम् । उपो षु शृणुही गिरः (सा. ४१६) इत्यत्रैक साम । उपोषुशृणुहीगिरः (ग्राम. ११. ७. ४१६. १) इति तृतीयचतुर्थादिकम् । एते द्वे ऋग्द्वयाश्रिते सामनी यामे चैव ॥ ७ ॥

त्रैतानि त्रीणि । सौपर्णे द्वे ॥४.७.८॥

चन्द्रमा अप्स्वन्तरा (सा. ४१७) इत्यत्र पञ्च सामान्युत्पन्नानि । चन्द्रमाआउवा (ग्राम. ११. ७. ४१७.१) इति द्वितीयक्रुष्टादिकम् । चन्द्रमाआ (ग्राम. ११. ७. ४१७. २) इति चतुर्थमन्द्रादिकम् । चन्द्रमाआप्सु- वन्तरा (ग्राम. ११. ७. ४१७. ३) इति मन्द्रद्वितीयादिकम् । एतानि त्रीणि त्रैतानि । त्रितो नाम ऋषिः तेन दृष्टानि । चन्द्रमाअप्सुवा (ग्राम. ११.७. ४१७. ४) इति मन्द्रचतुर्थादिकम् । चन्द्रौहोमाअप्सुवन्तरा (ग्राम. ११.७.४१७.५) इति मन्द्रचतुर्थादिकम् । एते अन्तिमे द्वे सौपणे सुपर्णशब्दयुक्ते सामनी ॥ ८॥

लौशम् ॥ ४.७.९॥

प्रति प्रियतमम् (सा. ४१८) इत्यत्रैकं साम । प्रातिप्रियतमम् (ग्राम. ११. ७. ४१८. १) इति क्रुष्टद्वितीयादिकं लौशम् एतन्नामधेयं साम ॥ ९ ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये चतुर्थाध्याये सप्तमः खण्डः ॥ ७ ॥