पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः

इन्द्रस्य संजये द्वे । सौते वा । सौग्मते वा। द्विहिंकारं वा वामदेव्यं द्वितीयम् ॥४.८.१॥

आ ते अग्न इधीमहि (सा. ४१९) इत्यत्र सामद्वयम् । आतेअग्न (ग्राम. ११. ८. ४१९. १) इति क्रुष्टद्वितीयादिकम् आतेअनइधी (प्राम. ११. ८. ४१९. २.) इति तृतीयचतुर्थादिकम् । एते द्वे इन्द्रस्य संजये असुराभि- हननहेतुभूते । तथा च ब्राह्मणम् -देवाश्च वा असुराश्च समदधत यतरे नः संजयांस्तेषां नः पशवोऽसानिति ते देवा असुरान् संजयेन [समजयन् यत्] समजयंस्तस्मात् संजयम् (ता. ब्रा. १३. ६. ७) इति । अथवा एते सामनी सौते सौग्मते वा । अथवा द्वितीयं साम द्विहिंकारं हिंकारद्वययुक्तं वामदेव्यं । हिं हिं (हुम्हुम् !) द्यावा इति साम्नि द्विः पठितत्वात् ॥ १॥

अङ्गिरसां चोत्सैधनिषेधौ ॥४.८.२॥

अग्निं न स्ववृक्तिभिः (सा. ४२०) इत्यत्र सामद्वयोत्पत्तिः । हाउ- औहोवा अग्निनस्ववृक्तिभीः (प्राम. ११. ८. ४२०. १) इति द्वितीयतृतीया- दिकम् । अग्निंनस्ववृक्तिभिर्हइहाहाइ (ग्राम. ११. ८. ४२०. २) इति मन्द्रा- दिकम् । अनयोर्द्वयोः अङ्गिरसां च उत्सेधनिषेधौ इति संज्ञे ॥ २ ॥ सत्यश्रवसश्च वाय्यस्य साम ॥ ३ ॥ महे नो अद्य बोधय (सा. ४२१) इत्यत्रक साम । महाइमहेनो अद्य (ग्राम. ११. ८. ४२१.१) इति तृतीयद्वितीयादिकं सत्यश्रवसः एतत्संज्ञकस्य वाय्यस्य ऋषेः साम ॥ ३॥

पौषं च ॥४.८.४॥

भद्रं नो अपि वातय (सा. ४२२) इत्यत्रै साम । भद्रनोअपिवातया (ग्राम. ११. ८. ४२२. १) इति द्वितीयक्रुष्टादिकम् । एतत् पौषम् पूष्णः संबन्धि ॥ ४ ॥