पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४९

चतुर्थः अध्यायः (९)

[उभे अपि धर्मयुक्ते इत्यभिधीयते । प्राणभृते प्राणभृत उपदधातीतिवत् । एवमुत्तरत्रापि द्रष्टव्यम् । पवस्व सोम महे दक्षाय (सा. ४३०) इत्यत्र सामद्वयम् । ओहोवा (ग्राम. ११.९.४३०.१) इत्यादि मन्द्रादिकम् । पवस्वसोमा (ग्राम.११.९.४३०.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्रजापतेर्विधर्मणी। अत्र द्वितीयस्य साम्नो विधर्म(1) इति हि निधनम् । एतानि धर्मविधर्मनिधनयुक्तानि ऋग्द्वयाश्रितानि चत्वारि सामानीत्यर्थः ॥ ३ ॥

भागं च ॥४.९.४॥

इन्दुः पविष्ट (सा. ४३१) इत्यत्रैकं साम । इन्दुः पविष्टा (ग्राम. ११.९. ४३१. १) इति चतुर्थमन्द्रादिकं भागम् । भगो नाम ऋषिस्तेन दृष्टम् ॥ ४ ॥

वाजिनां साम ॥४.९.५॥

अनु हि त्वा (सा. ४३२) इत्यत्रैकं साम । अनु। अनू (ग्राम. ११.९. ४३२. १) इति चतुर्थमन्द्रादिक वाजिनांसामनामकम् । वाजाꣳ अभि पवमान प्रगाहसे (४३२) इत्यत्र वाजशब्दः पठ्यते । तद्युक्तानां साम्नामित्यर्थः ॥ ५॥

प्रजापतेर्हिकविकनिकानि त्रीणि । विकनिकहिकानि वा । निकविकहिकानि वा ॥ ४.९.६॥

कईं व्यक्ता नरः सनीडा (सा. ४३३) इत्यत्र सामत्रयम् । कईंव्यक्ताः (ग्राम. ११. ९. ४३३. १) इति चतुर्थमन्द्रादिकम् । कईं वियक्ताः (ग्राम. ११. ९. ४३३. २) इति तृतीयद्वितीयादिकम् । काईम् (ग्राम. ११.९.४३३.३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि प्रजापतेः हिकविकनिकसंज्ञानि । अत्र वर्णविपर्यासेन उक्तं विकल्पद्वयम् । विकनिकहिकानि वा । निकविकहिकानि वा इति ॥ ६॥