पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० आर्षेयब्राह्मणम्

आश्वे द्वे । ऐटते वा ॥ ४.९.७ ॥

अग्ने तमद्याश्वं न (सा. ४३४) इत्यत्र सामद्वयम् । अग्ने तमाद्या (ग्राम. ११. ९. ४३४. १) इति मन्द्रचतुर्थादिकम् । अग्ने। होइ। तमद्य (ग्राम. ११. ९. ४३४. २) इति मन्द्रद्वितीयादिकम् । एते द्वे आश्वे अश्व- शब्दयुक्ते सामनी । अथवा ऐटते । इटतो नाम ऋषिः तेन दृष्टे वा ॥७॥

वाजिनां चैव साम ॥ ४.९.८॥

आविर्या आ वाजम् (सा. ४३५) इत्यत्रैक साम । आविर्मार्याः (ग्राम. ११. ९. ४३५. १) इति द्वितीयक्रुष्टादिकं वाजिनां च सामैव ॥ ८॥

आदित्यानां च पवित्रम् ॥ ४.९.९॥

पवस्व सोम द्युम्नी सुधारः (सा. ४३६) इत्यत्रैकं साम । पवस्व सोमा (ग्राम. ११. ९. ४३६. १) इति चतुर्थमन्द्रादिकम् आदित्यानां च पवित्रनामधेयम् ॥ ९॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये नवमः खण्डः ॥ ९ ॥