दशमः खण्डः
इन्द्रस्याभरे द्वे । वसिष्ठस्य वा ॥४.१०.१॥
विश्वतो दावन् विश्वतो न आभर (सा. ४.३७) इत्यत्र सामद्वयम् । विश्वतोहाउ (ग्राम. ११. १०. ४३७. १) इति मन्द्रादिकम् । विश्वतोदाव- न्विश्वतोनआ (ग्राम. ११. १०. ४३७. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्याभरे आभरशब्दयुक्त सामनी । अथवा वसिष्ठस्याभरे ॥१॥
वासुमन्दे द्वे । कावषाणि त्रीणि ॥ ४.१०.२ ॥
एष ब्रह्मा य ऋत्विय (सा. ४३८) इत्यत्र पञ्च सामान्युत्पन्नानि । एषाः (ग्राम. ११. १०. ४३८. १) इति चतुर्थमन्द्रादिकम् । एषाएषाः (ग्राम. ११.१०. ४३८.२) इति चतुर्थमन्द्रादिकम् । एते आये द्वे वासुमन्दे । वसुमन्दो नाम ऋषिः । तेन दृष्टे । एषाः । ओ। ओवा (ग्राम. ११.१०. ४३८. ३) इति चतुर्थमन्द्रादिकम् । ओहा ओहा। एषाब्रह्मा (ग्राम. ११. १०. ४३८. ४) इति द्वितीयतृतीयादिकम् । एषब्रह्मोहो (ग्राम. ११. १०.४३८. ५.) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि कावषाणि ॥ २ ॥
प्रजापतेः श्लोकानुश्लोकानि चत्वारि ॥ ४.१०.३ ॥
ब्रह्माण इन्द्रं महयन्तः (सा. ४३९) इत्यत्र सामद्वयम् । हाउस्वरता (ग्राम. १२.१०. ४३९.१) इत्यादि मन्द्रादिकम् । हाउ। अभि । स्वरता (प्राम. १२.१०. ४३९. २) इत्यादि मन्द्रादिकम् । एतयोः श्लोकयता-श्लोका इति क्रमेण निधने । अनवस्ते रथम् (सा. ४४०) इत्यत्रैक साम । हाउ- खरता (ग्राम. १२.१०. ४४०. १) इत्यादि मन्द्रद्वितीयादिकं स्वरातेति निधनयुक्तम् । शं पदम् (सा. ४४१) इत्यत्रै साम । औहोइ । शम्पदाम् (ग्राम. १२.१०. ४४१.१) इति तृतीयद्वितीयादिकम् ओइडेति निधनयुक्तम् ।