पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ आर्षेयब्राह्मणम्

एतानि ऋक्त्रयाश्रितानि चत्वारि सामानि प्रजापतेः श्लोकानश्लोक संज्ञकानि ॥३॥

वाचःसामनी द्वे ॥ ४.१०.४ ॥

सदा गावः शुचयः (४४२) इत्यत्रैकं साम । सादा। (ग्राम. १२.१०. ४४२. १) इति चतुर्थमन्द्रादिकम् । आ याहि वनसा सह (सा. ४४३) इत्यत्रैकं साम । औहोइ । आयाहि (ग्राम. १२. १०. ४४३.१) इति तृतीयद्वितीयादिकम् । एते ऋग्द्वयाश्रिते वाचःसामनी द्वे ॥ ४ ॥

मारुतं च । माधुच्छन्दसं वा ॥४.१०.५॥

उप प्रक्षे मधुमति (सा. ४४४) इत्यत्रैकं साम । ओवा। उप- प्रक्षेमधुमतिक्षियन्तः (ग्राम. १२. १०. ४४१. १) इति चतुर्थमन्द्रादिकं मारुतम् । अथवा माधुच्छन्दसम् एतत् ॥ ५ ॥

मारुतं चैव ॥ ४.१०.६॥

अर्चन्त्यक मरुतः (सा. ४४५) इत्यत्रै साम । अर्चन्तिया (ग्राम. १२.१०.४४५.१) इति चतुर्थमन्द्रादिकं मारुतमेव ॥ ६॥

उद्वंशपुत्रश्च ('पुत्रस्य च ?) ॥ ४.१०.७॥

प्र व इन्द्राय वृत्र (सा. ४४६) इत्यत्रैक साम । प्रवाः (ग्राम.१२. १०.४४६.१) इति मन्द्रचतुर्थादिकम् उद्वंशपुत्रश्च(पुत्रस्य च?) साम ॥ ७॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्रामणभाष्ये चतुर्थाध्याये दशमः खण्डः ॥ १० ॥