आर्षेयब्राह्मणम् १५४ विश्वस्य प्रस्तोभ (सा. ४५०) इत्यत्र सामद्वयम् । विश्वस्या (ग्राम १२. ११. ४५०.१) इति मन्द्रादिकम् । औहोइ विश्वस्या (ग्राम. १२. ११. ४५०. २) इति मन्द्रादिकम् । एते द्वे प्रजापतेर्धनधर्मणी । धानाम् धार्मा इति क्रमेण निधनयुक्ते सामनी ॥ ४ ॥
उषसश्च साम ॥४.११.५॥ उषा अप स्वसुष्टमः (सा. ४५१) इत्यत्र सामैकम् । उषाअपा (ग्राम. १२. ११. ४५१.१) इति मन्द्रादिकम् उपसः साम। सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ ५॥
भारद्वाजं च ॥ ४.११.६॥
इमा नु के भुवना (सा. ४५२) इत्यत्र सामैकम् । इमानुकम् (प्राम. १२. ११. ४५२.१) इति मन्द्रचतुर्थादिक भारद्वाजं च ॥ ६ ॥
इन्द्रस्य च राति ॥ ४.११.७॥
विस्रुतयो यथा (सा. ४५३) इत्यत्रैक साम । विस्रविस्तू (ग्राम. १२.११.४५३.१) इति चतुर्थमन्द्रादिकम् इन्द्रस्य च राति एतत्संज्ञकम् ॥ ७॥
भारद्वाजं च ॥ ४.११.८॥
अया वाजं देवहितम् (सा. ४५४) इत्यत्रैक साम । अयावाजाम् (ग्राम. १२.११.४५४.१) इति मन्द्रादिकं भारद्वाजम् एव ॥ ८॥