पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम् अथवा इन्वकनामधेयानि । अथवा सैन्धुक्षि- मृचि इति वैषम्यम् । तानि ॥ ७॥

सवितुश्च साम ॥ ४.१२.८॥

अमि त्यं देवम् (सा. ४६४) इत्यत्रैक साम । अभियंदेव सवि तारम् (ग्राम. १२. १२. ४६४. १) इति मन्द्रचतुर्थादिकं सवितुश्च साम ॥ ८॥

भारद्वाजे द्वे। पारुच्छेपे वा । अग्नेर्वैश्वानरस्य रक्षोघ्ने द्वे । बार्हस्पत्ये वा । अवभृथसाम वैनयोः पूर्वम् । प्रवर्ग्यं सामोत्तरम् ॥ ४.१२.९॥

अग्नि होतारं मन्ये दास्वन्तम् (सा.४६५) इत्यत्र सामचतुष्टयमुत्पन्नम् । तत्र अग्रि होता (ग्राम. १२. १२. ४६५.१) इति मन्द्रादिकम् । अग्नि होतारं मन्ये (ग्राम. १२.१२.४६५.२) इति चतुर्थतृतीयादिकम् । [एते आये द्वे भारद्वाजे। अथवा पारुच्छेपे। परुच्छेपो नाम ऋषिः । अहावोहावाः (ग्राम. १२. १२. ४६५.३) इत्यादि तृतीयद्वितीयादिकम् । त्यग्नाइः (ग्राम. १२. १२.४६५. ४) इत्यादि द्वितीयतृतीयादिकम् । एते अन्तिमे द्वे वैश्वानरस्याग्नेः रक्षोने रक्षोहननकारणे । अत्र विकल्पत्रयम् । अथवा एते सामनी बार्हस्पत्ये । यद्वा एनयोः पूर्व प्रथम अवभृथसामनामकम् । तथा उत्तरं द्वितीय प्रवर्दीसामनामधेयम् ॥ ९॥

ऐषं च ॥ ४.१२.१० ॥

तव त्यचर्यम् (सा. ४६६) इत्यबैक साम। तावत्यनारियन्नृ- ताउ (ग्राम. १२. १२. ४६६.१) इति क्रुष्टद्वितीयादिकम् ऐषम्, इषशब्द-