पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः

सौभरे द्वे । सौभ्रवे वा ॥५.२.१॥

प्र सोमासो मदच्युतः (सा. ४७७ ) इत्यत्रै साम । प्रसोमासाः (ग्राम. १३. २.४७७.१) इति द्वितीयतृतीयादिकम् । प्र सोमासो विपश्चितः (सा. ४७८) इत्यत्रैक साम । प्रसोमासाः । वाइपश्चितः (ग्राम. १३. २. ४७८.१) इति मन्द्रकुष्टादिकम् । एते द्वे सौभरे । सुभरि म ऋषिः । अथवा सौभ्रवे ॥ १॥

इन्द्रस्य वृषकाणि त्रीणि । देवानां वर्षीणां वार्षेयं प्रथमम् ॥५.२.२॥

पवस्वेन्दो वृषा सुतः (सा. ४७९) इत्यत्रैक साम। पवस्वेन्दो- वृषासुताः (ग्राम. १३. २. ४७९.१) इति चतुर्थमन्द्रादिकम् । वृषा ह्यसि भानुना (सा. ४८०) इत्यत्र सामद्वयम् । वृषाहिया (ग्राम. १३.२. ४८०.१) इति चतुर्थमन्द्रादिकम् । वृषाहियासिभानुना (ग्राम. १३. २. ४८०.२) इति चतुर्थमन्द्रादिकम् । एतानि ऋद्वयाश्रितानि त्रीणि सामानि इन्द्रस्य वृषकाणि वृषशब्दयुक्तानि एतन्नामधेयानि । अथवा एषां मध्ये प्रथमं साम देवानामृषीणां वार्षेयम् एतत्संज्ञम् ।। २ ।।

बभ्रोः कौम्भ्यस्य सामानि त्रीणि ॥ ५.२.३ ॥

इन्दुः पसिष्ट चेतनः (सा. ४८१) इत्यत्र सामत्रयम् । इन्दुरौहो- वाहाइ । पावी (ग्राम. १३. २. ४८१.१) इति तृतीयद्वितीयादिकम् । इन्दुःपविष्टचेतनःप्रियःकवाइ (ग्राम. १३. २. ४८१. २) इति चतुर्थमन्द्रा- दिकम् । इन्दुःपविष्टचेतनःप्रियःकवीनाम् (ग्राम. १३. २. ४८१.३) इति चतुर्थमन्द्रा (मन्द्रचतुर्था ? ) दिकम् । एतानि त्रीणि कौम्भ्यस्य बभ्रोः सामानि ॥३॥

बभ्रोः कार्तवेशस्य त्रीणि ॥ ५.२.४ ॥