पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः

वार्षाहरम् ॥ ५.४.१॥ अचिक्रदद्वपा हरिः (सा. ४९७) इत्यत्रैक साम । अचिक्रदान (ग्राम. १४. ४. ४९७.१) इति द्वितीयतृतीयादिकं वार्षाहरनामकम् ॥ १ ॥

वार्णानि त्रीणि ॥ ५.४.२॥

आ ते दक्षम् (सा. ४९८) इत्यत्र सामत्रयम् । आतेदक्षाम् (ग्राम. १४. ४.४९८.१) इति मन्द्रादिकम् । आतेदाक्षाम् (ग्राम. १४. ४. ४९८.२) इति द्वितीयतृतीयादिकम् । आतेदक्षमयः (ग्राम. १४. ४. ४९.८.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि वार्णानि । वृशो वैजान (ता. ब्रा. १३. ३. १२) इति [आदि ब्राह्मणम् । तत्संबन्धीनि ।। २ ।।

इन्द्रस्य वैरूपे द्वे ॥ ५.४.३॥

अध्वयो अद्रिभिः सुतम् (सा. ४९९) इत्यत्र सामद्वयम् । अध्वर्योआ (ग्राम. १४. ४. ४९९.१) इति द्वितीयक्रुष्टादिकम् । अध्वर्यो । होअद्री (ग्राम. १४. ४. ४९९.२) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्य वैरूपे ॥३॥

तरन्तस्य च वैददश्वेः साम ॥ ५.४.४ ॥

तरत्स मन्दी धावति (सा. ५००) इत्यत्रैक साम । तरत्समा (ग्राम. १४. ४. ५००.१) इति मन्द्रादिकं वैददश्वेः, विददश्वापत्यस्य तरन्तस्य ऋषेः साम ॥ ४॥

सोमसाम च ॥ ५.४.५॥

आ पवस्व सहस्रिणम् (सा. ५०१) इत्यत्रैक साम । आपवस्वा (ग्राम. १४. ४. ५०१.१) इति मन्द्रादिक सोमसाम ।। ५ ।।