पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० आर्षेयब्राह्मणम्


एते द्वे [गोष्ठपुस्तिने] पुरुषस्य यूतिया यूत्या ?)श्च सामनी । हाउहाउहाउवा। परीतोपिश्चनासुतम् (ग्राम. १४. ५. ५१२.१७) इति सप्तदशं महारैरवम् एतन्नामधेयम् ।। हाओवा (ग्राम. १४. ५. ५१२.१८) इत्यादि द्वितीय- तृत यादिकम् अन्तिमं साम महायौधाजयम् ॥ २ ॥

आश्वानि चत्वारि । सोमसामानि वा ॥ ५.५.३ ॥

आ सोम स्वानः (सा. ५१३) इत्यत्र चतुष्टय(चत्वारि ?)सामान्युत्पन्नानि । तत्र आयो (ग्राम. १४. ५. ५१३.१) इति तृतीयद्वतीयादिकम् । हावासोमस्खा (ग्रान. १४. ५. ५१३.२) इति मन्द्रादिकम् । आमोमखानो अद्रिभाइः (ग्राम. १४. ५. ५१२. ३) इति चतुर्थमन्द्रादिकम् । आसोमवानोअदिभिः (ग्राम. १४. ५. ५१३. ४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि आशानि । अथवा सोममामानि ॥ ३ ॥

आग्नेयं चाग्नेर्वा त्रिणिधनम् । कौत्सं वा यज्ञसारथि वा । अग्नेर्वैश्वानरस्य सामनी द्वे । द्विहिंकरं वामदेव्यं द्वितीयम् । अङ्गिरसां चोत्सेधनिषेधौ ॥ ५.५.४॥

प्र सोम देववीतये (सा. ५१४) इत्यत्र पञ्चसामान्युत्पन्नानि । तत्र प्रसोनदा (ग्राम. १४. ५. ५१४.१) इति मन्द्रादिकमाद्यमानेयम् । अथवा अग्ने स्त्रणिधननामधेयं वा । कौत्स कुत्सेन दृष्टम् । यज्ञसारथिनामधेयं वा । प्रसोमदेसी (ग्राम. १४. ५. ५१४.२) इति तृतीयमन्द्रा (? चतुर्था)- दिकम् । प्रसोमदेववीतया [] (ग्राम. १४. ५. ५१४ ३) इति द्वितीय- कुष्टादिकम् । एते द्वे अग्नेर्वैश्वानरस्य सामनी। अथवा द्वितीयम् एतयो- रुत्तरं साम द्विहिंकार हिंकारद्वयोपेतं वामदव्यत् ॥ प्रसोमदेववीतये ।