पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ आर्षेयब्राह्मणम्


त्रीणि । द्व्यध्यासं च । सौषाम वसिष्ठस्य वा। पिप्पल्यौक्ष्णोनिधानं वा । [पिप्पल्य] औक्ष्णोरन्ध्रं वा । प्रजापतेश्च वाजिजित् ॥ ७॥

मृज्यमानः सुहस्त्या (सा. ५१७) इत्यत्राष्टौ सामान्युत्पन्नानि । तत्र मृज्यमानाः सुहस्तिया (ग्राम. १५. ५. ५१७.१) इति मन्द्रद्वितीया- दिकम् । मृज्यमानाः सुहस्ताया (ग्राम. १५. ५. ५१७.२) इति मन्द्र- द्वितीयादिकम् । मृज्यमानाः। सुह । स्तिया (ग्राम. १५. ५. ५१७.३) इति मन्द्रद्वितीयादिकम् । एतानि वीण्यौक्ष्णोनिधानानि । अथवा औक्षणो- रन्ध्राणिं । मृज्याए (ग्राम. १५.५.५१७.४) इति मन्द्रमन्द्रादिकम् । मृज्यमानःसुहस्त्ये। वाहाइ (ग्राम. १५. ५. ५१७. ५) इति मन्द्र- चतुर्थादिकम् । मृज्यमानाःसुहस्तिया (ग्राम. १५. ५. ५१७. ६) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि आग्नेयानि अग्निसंबन्धीनि । मृज्यमानः सुहस्त्या। समुद्रे वोवा (ग्राम. १५. ५. ५१७.७) इति मन्द्रचतुर्थादिक सप्तमं साम यध्यासमेतन्नामधेयम् । अथवा सौषाम वसिष्ठस्प वा। सौषामो नाम राजर्षिः एतत्संबन्धिनो वसिष्ठस्य । यद्वा पिप्पल्यौक्ष्णोनिधानम् । यद्वा पिप्पल्यौक्ष्णोरन्धं वा । मृज्यमानःसुहा (ग्राम. १५. ५. ५१७.८) इति मन्द्रचतुर्थादिकमन्तिम प्रजापतेर्वाजिजित् वाजिशब्दयुक्तमेतत्संज्ञम् ॥ ७ ॥

वैश्वदेवे द्वे । इन्द्रसामनी द्वे । स्व:पृष्ठं चाङ्गिरसम् । इन्द्रसामानि त्रीणि ॥५.५.८॥

अमि सोमास आयवः (सा. ५१८) इत्यत्राष्टौ सामान्युत्पन्नानि । तत्र हाहाइ । अभिसोमास आयावाः (ग्राम. १५. ५. ५१८.१) इति द्वितीयतृतीयादिकम् । अभिसोमा (ग्राम. १५. ५. ५१८.२) इति चतुर्थ-