पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ पञ्चमः अध्यायः (५)


मन्द्रादिकम् । एते आये द्वे वैश्वदेवे । अभिसोमासआयवाः (ग्राम. १५. ५१८.३) इति द्वितीयक्रुष्टादिकम् । अभिसोमासआ। होया (य?)वाः (ग्राम. १५. ५. ५१८. ४) इति मन्द्रचतुर्थादिकम् । एते द्वे अनन्तरे इन्द्रसाम्नी ॥ अभाइसोमा (ग्राम. १५. ५. ५१८.५) इति क्रुष्टद्विती- यादिकं पञ्चमम् आङ्गिरसम् अङ्गिरसः संबन्धि स्वःपृष्ठम् इत्युच्यते ।। औहोवा । अभिसोमास आयवः । औहोवा (ग्राम. १५. ५. ५१८.६) इति चतुर्थमन्द्रादिकम् । अभिसोमासआयावाः (ग्राम. १५. ५. ५१८.७) इति मन्द्रादिमन्द्रमन्द्रादिकम् । अभिसोमासआयावाः । पवन्ताइमा (ग्राम. १५. ५. ५१८.८) इति मन्द्रमन्द्रादिकम् । एतानि त्रीणि इन्द्रसामानि ॥ ८॥

सोमसामनी च। स्व:पृष्ठं चैवाङ्गिरसम् । सोमसामनी चैव । देवानां च पवित्रम् । आदित्यानां वा ॥५.५.९॥

पुनानः सोम जागृविः (सा. ५१९) इत्यत्रैक साम । पुनानः सोमजागृविरव्याः (ग्राम. १५. ५. ५१९. १) इति मन्द्रचतुर्थादिकम् । इन्द्राय पवते मदः (सा. ५२०) इत्यत्र त्रीणि सामानि उत्पन्नानि । तत्र इन्द्रायपा । वताइमादाः (ग्राम. १५.५.५२०.१) इति मन्द्रद्वितीयादिक- माद्यमे साम । एतत्पूर्वमेकर्चगतं साम । ते उभे सोमसामनी । इन्द्रा- यपा । वतेमदाः (ग्राम. १५.५.५२०.२) इति मन्द्रद्वितीयादिकं द्वितीयमेक साम आङ्गिरसं स्वःपृष्टमेव । इन्द्रायापावताइमदाः (ग्राम. १५. ५. ५२०. ३) इति मन्द्रद्वितीयादिकं तृतीय सामैकम् । पवस्व वाजसातम (सा.५२१) इत्यत्र उत्तरस्यां सामैकम् । पवस्ववाजसा । इहा (ग्राम. १५. ५. ५२१.१) इति चतुर्थमन्द्रादिकम् । पूर्वऋगाश्रितमन्तिमं [पवस्वेत्येकं चै] ते उभे सोमसामनी एव । पवमाना असृक्षत (सा. ५२२) इत्यत्रैक साम । पवमानाअसृक्षतपयाइ (ग्राम. १५. ५. ५२२.१) इति चतुर्थमन्द्रादिकं