पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः


कुत्सस्याधिरथीयानि त्रीणि । आशुरथीयानि वा ॥५.७.१॥

प्र सेनानीः। शूरो अग्रे रथानाम् (सा. ५३३) इत्यत्र साम- त्रयम् । होवा । उहुवा । होवा । प्रा (प्र?) सेनानाइ: (ग्राम. १५. ७. ५३३.१) इति तृतीयचतुर्थादिकम् । औहोवा (ग्राम. १५. ७.५३३.२) इत्यादि मन्द्रचतुर्थादिकम् । औहोवा प्र सेनानाइः (ग्राम. १५. ७. ५३३. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि कुन्सस्याधिरथीयानि रथशब्द- युक्तानि एतन्नामधेयानि सामानि । अथवा आशुग्थीयानि ॥ १ ॥

वैश्वज्योतिषाणि त्रीणि ॥ ५.७.२॥

प्र ते धारा मधुमतीरसृग्रन् (सा. ५३४) इत्यत्रैक साम । हाउहोवाहाइ । प्रतेधारा (ग्राम. १५. ७. ५३४.१) इति द्वितीयतृतीया- दिकम् । प्रगायताभ्यर्चा (सा. ५३५) इत्यत्रैक साम । प्रगायता (ग्राम. १५. ७. ५३५. १) इति द्वितीयकुष्टादिकम् । प्र हिन्वानो जनिता रोदस्योः (सा. ५३६) इत्यत्रैकं साम । हाउहोवाहाइ । प्रहिन्वानो (ग्राम. १५. ७.५३६.१) इति द्वितीयतृतीयादिकम् । एतानि ऋक्त्रया- श्रितानि त्रीणि सामानि वैश्वज्यो.तपाणि विश्वज्योतिःसंबन्धीनि । सूर्याचन्द्र- मसौ हि विश्वज्योतिः । जनयन्त्सूर्यम् (सा. ५३४१) इत्याद्यायामृचि सूर्यशब्दो विद्यते । उत्तरत्र सोमशब्दः ॥ २ ॥

वाचः सामनी द्वे ॥५.७.३॥

तक्षयदी मनसो वेनतो वाग (सा. ५३७) इत्यत्र सामद्वयम् । तक्षद्यदी (ग्राम. १५. ७.५३७.१) इति तृतीयचतुर्थादिकम् । तक्षद्यदाइ (ग्राम. १५. ७. ५३७.२) इति द्वितीयक्रुष्टादिकम् । एते द्वे वाचःसामनी । अत्र वाकशब्दो हि विद्यते ॥ ३ ॥