पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्


संबन्धीनि । वैश्वानरस्याग्रदेवतायाः स्वभूतान्येतानि सामानि । दीदिहीति निधनं दीप्तिसामकम् । तेन अग्निसामानीत्यभिधीयन्ते । तथा च ब्राह्मणम् - इनुष्टि; एतेनाङ्गिरसोऽञ्जसा स्वर्ग लोकमपश्यद् (तां. बा. १३. ११. २३) इत्यादि अग्नेर्वा एतद्वैश्वानरस्य साम दीदिहीति निधनमुपयन्ति दीदा एव ह्यग्निर्वैश्वानर (ता. ब्रा. १३. ११.२४) इत्यन्तम् अनुसंधेयम् ॥ ७॥

आत्रं च ॥ ५.७.८॥

महत्तत्सोमो महिषः (सा. ५४२) इत्यत्रकं साम । महत्तत्सोमो- महिषाश्चकारा (ग्राम. १६.७.५४२.१) इति द्वितीयतृतीयादिकम् आत्रम् अत्रिणा दृष्टम् ॥ ८॥

वासिष्ठं च ॥५.७.९॥

असर्जि वकवा रथ्ये यथाजौ (सा. ५४३) इत्यत्रैकं साम । असा औहो (ग्राम. १६. ७. ५४३. १) इति द्वितीयक्रुष्टादिकं वासिष्ठं वसिष्ठेन दृष्टम् ॥ ९॥

अपां च साम ॥५.७.१०॥

अपामिवेदुर्मयस्ततुराणाः (सा. ५४४) इत्यत्रै साम । अपा- मिवेदर्मयस्तौ (ग्राम. १६. ७.५४४.१) इति मन्द्रचतुर्थादिकम् अपांच साम ॥१०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये सप्तमः खण्डः ॥ ७ ॥