पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ आर्षेयब्राह्मणम्


गृत्समदस्यर्षेः सूक्तानि तत्संज्ञकानि सामानि । एकैकं साम सूक्तनामधेयम् । अथवा वसिष्ठस्य सूक्तानि ॥ ७ ॥

आकूपारं च ॥ ५.८.८॥

परित्यं हर्यतं हरिम् (सा. ५५२) इत्यत्र सामैकम् । परित्य५- हर्यत हरिम् (ग्राम. १६. ८. ५५२.१) इति तृतीयचतुर्थादिकम् आकू- पारम् । अकूपारो नाम कश्यपः। तत्संबन्धि । अकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छद् (ता. ब्रा. १५. ५. ३०) इति ब्राह्मण- मनुसंधेयम् ॥ ८॥

वैरूपं च । नृगस्य वा साम ॥ ५.८.९ ॥

प्र सुन्वानाबान्धसः (सा. ५५३) इत्यत्र सामैकम् । प्रसुन्वा- नायअन्धसाः (ग्राम. १६. ८. ५५३. १) इति द्वितीयक्रुष्टादिक वैरूपम् । अथवा नृगस्य वा मामैतत् ॥ ९॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये अष्टमः खण्डः ॥ ८॥