पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

२० आर्षेयब्राह्मणम्


कावं च वसुरोचिषः ॥ ९ ॥

कविमग्निमुप स्तुहि (सा. ३२.) इत्यस्यामेकमुत्पन्नम् साम। कविमग्नीम् (प्राम. १.३.३२.१.) इति मन्द्रस्वरादिकं साम वसुरोचिषः एतन्नामकस्य ऋषेः स्वभूतम् । कावं कविशब्दोपेतपदमेतन्नाम ॥ ९॥

सूर्यवर्चसः सामनी द्वे ॥ १० ॥

शं नो देवीरभिष्टये (सा. ३३) इत्यस्यां सामद्वयमुत्पन्नम् । शन्नो देवीः (ग्राम. १. ३. ३३. १) इति मन्द्रस्वरादिकमाद्यम् साम । हुवा होइ शन्नो देवीः (ग्राम. १. ३. ३३. २) इति तृतीयद्वितीयक्रुष्टादिकं द्वितीयम् । ते उभे सूर्गवर्चमः स्वभूते सामनी ॥ १० ॥

अत्र ऋषिविकल्पमाह -

वसुरोचिषो वा पारावतेः काशीते वा कापोते वा वासुमन्दे वा ॥ ११॥

वा- शब्दः पक्षान्तरवाची । उक्ते द्वे सामनी पारावतपुत्रस्य वसुरोचि- र्नामकस्य ऋषेः संबन्धिनी । काशीते वा। वाशीतो नाम ऋषिः । कापो11-भिधेये वा। वसुमन्दो नाम ऋषिः । तस्य स्वभूते वा ॥ ११ ॥ गोराङ्गिरसस्य सामनी द्वे ॥ १२ ॥

कस्य नूतं परीणसि (सा. ३४) इत्यत्र सामद्वयमुत्पन्नम् । कस्यानूनाम् (१.३.३४.१.) इति क्रुष्टद्वितीयादिकं प्रथमम् । ओ (औ?) होइ हुवाइ । हुवए