पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ आर्षेयब्राह्मणम्


(ग्राम. १७.११. ५८४. ४) इति द्वितीयक्रुष्टादिकम् । एतस्यधारयासुताः (ग्राम. १७.११.५८४.५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सोमसामा- न्येव । सोमेन दृष्टानीत्यर्थः । अत्र- यथा वा इमा अन्या ओषधय एवं सोम आसीत् । स तपोऽतप्यत । स एतत्सोमसामापश्यत् (तां ब्रा. ११. ३. ९) इति हि ब्राह्मणम् ॥ ७॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याय एकादशः खण्डः ॥ ११ ॥

।। पवमानार्षेयभाष्यं समाप्तम् ।।

वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमोऽध्यायः ॥ ५ ॥