पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ आर्षेयब्राह्मणम्


बृहती वामदेव्ये द्वे ॥ ६.१.२.९॥

कया नश्चित्र आ भुवत् (सा. १६९) इत्यत्र सामद्वयम् । हाउ (त्रिः) । बृहद्वामम् इत्यादि कयानश्चित्रआभुवात् (आ. गा. १. २. २५) इत्यादि द्वितीयक्रुष्टादिकम् । बृहद्वामम् (त्रिः) कयानश्चाइ (आ. गा. १. २.२६) इति तृतीयद्वितीयादिकम् । एते द्वे बृहच्छब्दयुक्ते वामदेव्ये वामदेवेन दृष्टे ॥ ९॥

भरद्वाजस्य बृहत् ॥ ६.१.२.१०॥

स्वामिद्धि हवामहे (सा. २३४) इत्यत्रैक साम । औहोइ- स्वामिद्धिहवामहाए (आ. गा. १.२.२७) इति द्वितीयतृतीयादिकं भर- द्वाजस्य बृहन्नामधेयम् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि द्वितीयः खण्डः ॥ २॥