पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः


अग्नेर्वैश्वानरस्य त्रीणि ॥६.१.४.१॥

मूर्धान दिव (सा. ६७) इत्यत्र सामत्रयम् । हाउ (त्रिः) । आज्यदोहं (त्रिः) मूर्द्धानं दाइ (आ. गा. १. ४. ४३) इति द्वितीयतृतीया- दिकम् । हाउ (त्रिः) । हि (हुम्?) । [स्थि] चिदोहम् (आ. गा. १. ४. ४४ ) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः) । च्योहं (त्रिः) मूर्धा- नन्दाइ (आ. गा. १. ४. ४५) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि वैश्वानरस्याग्नेः सामानि । एतद्देवतानिबन्धनं नाम ।। १ ॥

अत्र पदऋप्यादिभेदेन विकल्पं दर्शयति

आज्यदोहान्याचिदोहान्याच्यदोहानि वा । प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा ॥६.१.४.२॥

सर्वाणि आज्यदोहानि आज्यदोहपदयुक्तानि । सर्वाणि प्राणभृन्न्याय- वत् पदाभावेऽपि सर्वाण्याज्यदोहानीत्युच्यन्ते । अथवा एक बहु[भि]विव- क्षितम् । आचिदोहानि आन्यदोहानि वा । एतत् पदनिबन्धन नाम । अथवा एतानि प्रजापतेः संबन्धीनि । विष्णोर्वा अथवा विश्वामित्रस्य ।।२।।

रुद्रस्य त्रय ऋषभाः ॥६.१.४.३॥

सुरूपकृत्नुभूतये (सा. १६०) इत्यत्रैक साम । सुरूप- कृत्नुमूतये (आ. गा. १. ४. ४६) इति द्वितीयक्रुष्टादिकम् । पिबा सोम- मिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्रैक साम । हाउ (त्रिः)। आइही इत्यादि पित्रासोमाम् (आ. गा. १. ४. ४७) इति द्वितीयक्रुष्टादि- कम् । स्वादोरित्था विषूवतः (सा. ४०९) इत्यत्रैकं साम । ओम् (त्रिः) । स्वादोरेइत्थाएविषएवतआ (आ. गा. १. ४. ४८) इति द्वितीयतृतीयादिकम् । एतानि ऋक्त्रयाश्रितानि सामानि । त्रयो रुद्रस्य ऋषभाः । एतत्संज्ञकानि ॥ ३ ॥