पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयपर्व

प्रथमः खण्डः

वसिष्ठस्य प्राणापानौ द्वौ ॥६.२.१.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् | हाउ (त्रिः निश्वसेत्) आयुः इत्यादि इन्द्रन्नरोनेमधिताहवन्ताइ (आ. गा. २. १. ९०) इति द्वितीयादिकम् । हाउ (त्रिः उच्छुसेत्) इत्यादि इन्द्रंनरो (आ. गा. २.१.९१) इति द्वितीयादिकम् । एते द्वे बसिष्टस्य प्राणापान- रूपे सामनी ॥ १॥

इन्द्रस्येन्यौ द्वौ ॥६.२.१.२॥

हाउ (त्रिः) । एन्यौ इत्यादि इन्द्रन्नरो (आ. गा. २.१. ९२) इति द्वितीयादिकम् । हाउ (त्रिः) । आहोएन्यो इत्यादि इन्द्रन्नरो (आ. गा. २. १. ९३) इति [द्वितीयक्रुष्टादिकम् ।। एते द्वे इन्द्रस्येन्यो एन्यपद- युक्ते सामनी ॥ २॥

प्रजापतेर्व्रतपक्षौ द्वावहोरात्रयोर्वा ॥ ६.२.१.३ ॥

इन्द्रं नरो (सा. ३१८) इत्यत्र सामद्वयम् । हाउ (त्रिः)। हिहि- हिहि इत्यादि इन्द्रन्नरो (आ. गा. २.१.९४) इति द्वितीयक्रुष्टादिकम् । हाउः (त्रिः)। इहा हिहिहि इत्यादि इन्द्रन्नरो (आ. गा. २. १. ९५) इति द्वितीयक्रुष्टादिकम् । एते द्वे प्रजापतेव्रतपक्षौ । अथवा अहोगत्रयोर्वत- पक्षौ ॥ ३॥

इन्द्राण्या उल्बजरायुणी द्वे ॥ ६.२.१.४ ॥

इन्द्रं नरो ( सा. ३१८) इत्यत्र सामद्वयम् । हावीद्राम् (आ. गा. २. १. ९६) इति क्रुष्टद्वितीयादिकम् । उवा । ओवा इत्यादि इन्द्रां नरो