पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९ षष्ठाऽध्याये द्वितीयपर्व (१)

(आ. गा. २. १.९७) इति क्रुष्टद्वितीयादिकम् (कुष्टादिकम् !)। एते द्वे इन्द्राण्या उल्बजरायुणी । आद्यस्य उल्बसंज्ञा द्वितीयस्य जरायुर्नाम ।। ४ ।।

बृहस्पतेर्बलभिदी द्वे। इन्द्रस्य वोद्भिद्वैनयोः पूर्वम् ॥६.२.१.५॥

उप त्वा जामयो गिर (सा. ३२०) इत्यत्र सामद्वयम् । होवाइ (द्विः) । होवाहाइ । उपत्वाजामायोगिरः (आ. गा. २. १. ९८) इति द्वितीयादिकम् । ओवा (द्विः)। ओवाहाइ । उपन्वाजामायोगिरः (आ. गा. २. १. ९९) इति द्वितीयतृतीयादिकम् । एते द्वे बृहस्पतेर्बलभिदी एतन्नामधेये । अथवा इन्द्रस्य बलभिदी। यद्वा एतयोः पूर्वमादिम साम उद्भिन्नामकम् ॥ ५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि प्रथमः खण्डः ॥ १॥