पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये द्वितीयपर्व (२) २३१

प्रजापतेस्त्रीणि चडूंषि ॥ ६.२.२.४ ॥

अयं पूषा रयिर्भगः (सा. ५२६) इत्यत्र सामत्रयमुत्पन्नम् । अयं- पूषाओवा (आ. गा. २. २. १०६) इति द्वितीयक्रुष्टादिकम् । अयम् । पूषा औहोवा (आ. गा. २. २. १०७) इति द्वितीयक्रुष्टादिकम् । ए अयम्पूषारयिर्भगा: (आ. गा. २. २.१०८) इति द्वितीयादिकम् । एतानि त्रीणि प्रजापतेश्चक्षुषि । चक्षुःशब्दयुक्तान्येतन्नामधेयानि । ओवा चाक्षुः इति द्वयोनिधनान्ते [ विद्यते । तृतीयस्य चक्षुःशब्दाभावेऽपि छत्रिन्यायवत् त्रीण्यपि चक्षुःशब्दयुक्तानीति अभिधीयन्ते ।। ४ ।।

त्रीणि वार्षाहराणि ॥ ६.२.२.५॥

त्वमेतदधारयः (सा. ५९५) इत्यत्र सामत्रयम् । हाउत्वमेतात (आ. गा. २. २. १०९) इति द्वितीयादिकम् । त्वमेतद्धोहाइ (आ. गा. २. २. ११०) इति द्वितीयक्रुष्टादिकम् । आइत्वमेतात (आ गा. २. २. १११) इति द्वितीयादिकम् । एतानि त्रीणि वार्षाहराणि एतन्नामधेयानि ॥ ५ ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि द्वितीयः खण्डः ॥ २॥