पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये द्वितीयपर्व (४) २३५

यतीन सालावे.भ्यः प्रायच्छत्तेपां त्रय उदशिष्यन्त रायोवाजो वा निगः (! वृहनिगरिः) पृथुरश्मिस्तेऽब्रुवन् को नाम इमान् पुत्रान् भरिष्यति (ता. बा. १३. ४. १७) इत्यादिना प्रपञ्चेन अभिहिता ॥ ३ ॥

संकृतिपाथुरश्मे द्वे ॥ ६.२.४.४ ॥

स्वादोरिन्था विध्यतः ( सा. ४०९) इत्यत्र सामद्वयम् । एस्वादोः। इत्थाविषवतो (आ. गा. ३. ४. १२८) इति क्रुष्टद्वितीयादिकम् । एस्वादोः । ओवा । इत्थाविष्वताः । अथा (आ. गा. ३. ४.१२९) इति क्रुष्टद्वितीया- दिकम् । एते द्वे संकृतिपाथुरश्ने । आद्य संकृतिनाम संस्कारकत्वात् । तथा च ब्राह्मणम् संकृति भवति इत्यादि । संकृतिना समस्कुर्वन् (ता. ब्रा. १५. ३. २८-२९) इति द्वितीय पाथुरश्नम् । पृथुरश्मि म यतिः तत्संबन्धि । अस्य ब्राह्मणम् पूर्वस्यां [आख्यायिकायां बार्ह गिरेण सहोक्तम् ।। ४ ।।

श्येनवृषके द्वे ॥६.२.४.५॥

उभे यदिन्द्र रोदसी (सा. ३७९) इत्यत्र सामेकम् । ऊभाइ । यदिन्द्ररोदसाइ (आ. गा. ३. ४. १३०) इति क्रुष्टद्वितीयादिकम् । स्वादो- रित्था विषवतः (सा. ४०९) इत्यत्र सामैकम् । एस्वादोः । (द्विः) (आ. गा. ३. ४. १३१) इति क्रुष्टद्वितीयादिकम् । एते द्वे श्येनवृषके । पूर्व श्येननामधेयम् । अत्र ब्राह्मणम् श्यनो भवति । श्येनो ह वै पूर्वप्रेतानि वयांस्यानोति (ता. ब्रा. १३. १०. १२-१३) इत्यादि । श्येनो वा एतदहः संपरायितुमहति । म हि वयसामाश्चि (शि.) gः (तां ब्रा. १३. १०.१४) इत्यनुसंधेयम् । उत्तरस्य वृषकमिति नाम । वृषन्शब्दोपेतं च साम ।। ५ ।। इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पष्ठाध्याये द्वितीयपर्वणि चतुर्थः खण्डः ।। ४ ।।