पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये द्वितीयपर्व (७) २४१

स्वरणि स्वर्गलोकहितानि । अथवा स्वर्गस्य लोकस्य गमनानि पापकाणि । एतन्नामधेयानि सामानि वेत्यर्थः ॥ २ ॥

विष्णोस्त्रीणि स्वरीयांसि ॥ ६.२.७.३ ॥

हाउहोहाइ इत्यादि परात्परमैया। ता [यज्ञो-पृथिवी-दिवो- मूर्धानम् – इडांयच्छ ( आ. गा. ३. ७. १५६-१५९ ) इति चत्वारि स्तौभिकानि सामानि । हाउहोहाइ इत्यादि ] यज्जायथा (आ. गा. ३. ७. १६०) इति द्वितीयक्रुष्टा(क्रुष्टद्वितीया ?) दिकम् एक साम । पतत् प्रथमम् ।।

हाउहोवा इत्यादि ज्योतिर्धेनुः (आ. गा. ३. ७. १६१) इत्यन्तम् [एकम् । अत्र स्तोभमात्रम् साम । हाउहोवा इत्यादि यज्जायथाः (आ. गा. ३. ७. १६२) इति क्रुष्टद्वितीयादिकं साम । एतद् द्वितीयम् ।।

हाऊवाग इत्यादि एतोकंप्रजाङ्गर्मोन (आ. गा. ३. ७. १६३) इति प्रथमम् । हाऊवाग इत्यादि यस्माद्यावापृथिवीभुवनानि चक्रदुः (आ. गा. ३. ७. १६४) इति द्वितीयम् । हाऊवाग इत्यादि येभिर्विया- श्वमैरयाः (आ, गा. ३. ७. १६५) इति तृतीयम् | हाऊवाग इत्यादि यज्जायथा अपूहो (आ. गा. ३. ७.१६६) इति द्वितीयक्रुष्टादिकं [चतुर्थम् ] । एतत् तृतीयम्॥

एतानि त्रीणि विष्णोः स्वरीयांसि एतन्नामधेयानि ।। ३ ।।

पञ्चानुगानं ह्यनुगानं चतुरनुगानम् ॥ ६.२.७.४ ॥

होउहोहाइ इत्यादि यज्जायथा (आ. गा. ३. ७. १५६-१६०) इति प्रथम पञ्चानुगानम् पञ्च[भिर्] अनुगानैरुपेतम् । हाउहोवा इत्यादि यज्जायाथा (आ. गा. ३. ७. १६१-१६२) इति द्वितीयं द्वयनुगाननामक