पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ आर्षेयब्राह्मणम्

क्रुष्टद्वितीयादिकम् । एते ऋग्द्वयाश्रिते अहोरात्रयोर्वते । तत्राहः पूर्व साम । अरूरुचद्धमों अरूरुचदुषमादिवियोविभाति इत्यत्र निधने उषःकालस्य विद्यमानत्वात । उत्तरं साम राज्याः । विश्वस्यजगतोरात्रीति. [निधने रात्रीति] विद्यते ॥ ३॥

विष्णोर्व्रतम् ॥ ६.३.३.४॥

प्रक्षस्य वृष्णो अरुषस्य (सा. ६०९) इत्यत्रैक साम । हाउ (त्रिः) इत्यादि प्रक्षस्य (आ. गा. ४. ३. १९६) इति द्वितीयादिकं विष्णोर्बत- नामधेयम् ॥ ४ ॥

विश्वेषां देवानां व्रतम् ॥ ६.३.३.५॥

विश्वे दवा मम शृण्वन्तु यज्ञम् (सा. ६१०) इत्यत्रैक साम । हाउ (त्रिः) आइही इत्यादि विश्वेदेवाममशृण्वन्तु (आ. गा. ४. ३. १९४) इति द्वितीयादिक विश्वेषां देवानां व्रतम् ॥ ५ ॥

वसिष्ठव्रते द्वे ॥ ६.३.३.६॥

उदु ब्रह्माण्यैरत श्रवस्प (सा. ३३०) इत्यत्र सामद्वयम् । हाउ (त्रिः) इत्यादि उदुब्रह्मा (आ. गा. ४. ३. १९५) इति द्वितीयादिकम् । हाउ (त्रिः) [इत्यादि] उदुब्रह्मा (आ. गा. ४. ३. १९६) इति द्वितीयादिकम् । एते द्वे वसिष्ठव्रते ॥ ६॥

इति श्रीसायणाचायविरचिते माधवीये सामवेदार्थप्रकाशे आयत्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि तृतीयः खण्डः ॥ ३ ॥ 10 15 19 7. C.adds मन्द्र before द्वितीया . 12. C. मन्द्रकृष्टा° for द्वितीया ; K. ins. °कृष्ट " after द्वितीय". 15,16. C. adds मन्द्र ° before द्वितीया.