पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० आर्षेयब्राह्मणम्

इति द्वितीयक्रुष्टादिकं सप्तममनुगानम् । प्राग् दशमाद्गवां व्रत इति। ते मन्वत प्रथमं नाम गोनाम् (सा. ७०७) इत्यत्रैकं साम । हाउ (त्रिः) तेमन्वतप्रथमंनामगो (आ. गा. ५. ८. २४६) इति मन्द्र (द्वितीय)- क्रुष्टादिकम् । सहर्षभाः सहवत्साः उदेत (सा. ६२५) इत्यत्रैकं साम । हाउ (त्रिः) वा सहर्षभास्सहवत्साउदेत (आ. गा. ५.८.२४७) इति द्वितीयक्रुष्टादिकम् । एते सामनी दशमात् दशसंख्यापूरकात् अनुगानात् प्राक् पूर्वं गवां व्रते एतन्नामधेये। द्विवचनसामर्थ्यात् गवां व्रते इत्यभि- धीयते । अरुणिर्यशसा गावः (सा. ६०६) इति सहर्षभा सहवत्सा (६२६) इति गोवत्सशब्दयोर्विद्यमानत्वात् गवांव्रतनामके। कश्यपपुच्छं दशममिति । अग्निरस्मि जन्मना जातवेदाः (सा. ६१३) इत्यत्रैकं साम । हाउ (त्रिः) वाग्घहहहह इत्यादि अग्निरस्मिजन्मना औहो (आ. गा. ५. ८. २४८) इति द्वितीयादिकं दशमं साम कश्यपपुच्छनामधेयम् । एतत्साम- जानां दशानां सामरूपाणाम् अनुगानानां सामान्येन कश्यपव्रतमिति नामधेयम् । संज्ञाविशेषस्तु तत्रैवोक्तः ॥ २ ॥

निह्नवाभिनिह्नवौ द्वौ । अनडुद्व्रते द्वे वा ॥ ६.३.७.३ ॥

इती इत्यादि क्रुष्टद्वितीयादिकम् । ए इती (आ. गा. ५. ८. २४९) इत्यन्तं केवलस्तोभोत्पन्नमेकं साम । स्वयंस्कुन्वाइ इत्यादि द्वितीयक्रुष्टादिकम् एस्कुन्वे (द्विः) ए (आ. गा. ५.८.२५०) इत्यन्तं केवलस्तोभोत्पन्नमेकं साम । ते उभे निह्नवाभिनिह्नवौ एतन्नामधेये । पूर्वस्य निह्नव इति नाम । द्वितीयस्य अभिनिह्नव इति । अत्र विकल्पः । एते सामनी अनडुद्व्रते इति ।। ३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि सप्तमः खण्डः ॥ ७ ॥

॥ तृतीयं पर्व समाप्तम् ॥