द्वितीयः खण्डः
आदित्यव्रतमेकविंशत्यनुगानम् [इति] शाण्डिलीपुत्रः । द्वाविंशतिरिति वार्ष्यायणीपुत्रः ॥६.४.२.१॥
अत्रादित्यव्रताख्यं सामोच्यते - आदित्यव्रतमिति । तस्य मतभेदेन स्वरूपद्वैविध्यमाह एकविंशत्यनुगानमिति मन्यते शाण्डिलीपुत्रो द्वाविंशतिरिति वार्ष्यायणीपुत्र इति । शण्डिलस्यापत्यं स्त्री शाण्डिली । तस्याः पुत्रः ऋषिः आदित्यव्रतमेकविंशत्यनुगानम् इति मन्यते ॥१॥
तेषामनुगानानां क्रमेण स्वरूपं दर्शयति । तत्र] प्रथमस्य स्वरूपम् -
वैश्वदेवाः समैरयाः संशानानि भूतवदित्येकम् ॥ ६.४.२.२ ॥
एतत्सर्वं मिलित्वा प्रथमस्यानुगानस्य नाम। सन्त्वाभूतान्यैरयन् (आ. गा. ६.२. २६९) इत्यादिके एतदाश्रयभूते देवताबाहुल्यसमैरयपदैः ('दानां ?) श्रवणादुक्तनाम अनुबोद्धव्यम् ॥ २ ॥
द्वितीयस्य स्वरूपं दर्शयति--
चित्रं देवानाम् (सा. ६२९) अन्तर् (सा. ३१६) इति द्वयोरपरम् ॥ ६.४.२.३॥
चित्रं देवानामुदगात् (सा. ६२९) अन्तश्चरति रोचना (सा.६३१) इति ऋग्द्वयोर्गीयमानमपरं (आ. गा. ६.२. २७०) द्वितीयमनुगानम् ॥ ३ ॥