पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ आर्षेयब्राह्मणम्

विंशस्य नाम दर्शयति -

द्वितीयोऽतीषङ्गस्तन्मित्रावरुणयोः श्रोत्रमित्याचक्षते । चक्षुश्च तदेवैके ॥ ६.४.२.१२॥

हाउ (त्रिः)। भ्राजा भ्राजा (आ. गा. ६.२.२८८) इत्यादि पुरस्तोभ- पूर्वम् । उदु त्यं जातवेदसम् (सा. ३१), चित्रं देवानामुदगाद् (सा. ६२९) इत्यायचोः परस्परं व्यतिषङ्गेन गायन्ति अनुगायन्ति वा द्वितीयोऽतीषङ्गः । एतत्संज्ञकमित्यर्थः । पूर्व सौर्योऽतीषङ्ग उक्तः । पक्षः (सांप्रतं ?) द्वितीय इत्युक्तेऽपि सौर्यत्व दर्शयति [चक्षुरिति । तदेव चक्षुरित्येके आहुः ॥ १२ ॥

[एकविंशस्य नाम दर्शयति -]

तृतीयोऽतीषड़स्तदिन्द्रस्य शिर इत्याचक्षते ॥ ६.४.२.१३ ॥

हाउ (त्रिः) भ्राजाओवा (आ. गा. ६.२.२८९) इत्यादि पुर- स्तोभपूर्वम् । उदु त्यं जातवेदसम् (सा. ३१), इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यूचोः परस्परव्यतिषङ्गेन गीयमानम् एकविंश तृतीयोऽतीषङ्गः । एतदिन्द्रस्य शिरोनामकम् इत्याचक्षते । द्वितीयस्या- मृचि (चः) इन्द्रदेवत्यत्वात् एक (एतत् ?) नाम संपन्नमिति मन्तव्यम् ॥ १३ ॥

द्वाविंशस्य स्वरूपं दर्शयति--

आदित्यस्योन्नयं तदादित्यात्मेत्याचक्षते ॥ ६.४.२.१४ ॥

उन्नयामि होइ (आ. गा. ६. २. २९०) इत्यादिकं स्तोभतुल्यम् ऋगक्षररहितं द्वाविंशमनुगानम् आदित्यस्योन्नयनामकम् । तत्र आदित्योन्नय- पदयोर्विद्यमानत्वात् एतन्नाम । तदेवानुगानम् आदित्यात्मकसंज्ञकमित्या- चक्षते इत्याचार्याः ॥ १४ ॥