पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (६)


गाथिनश्च कौशिकस्य साम ॥ ३ ॥

अदर्शिं गातुवित्तमः (सा. ४७) इत्यत्रैकं सामोत्पन्नम् । अदर्शिगातुवित्तमाए (ग्राम. २.५.४७.१) इति मन्द्रमन्द्रादिकं कौशिकस्य कुशिकपुत्रस्य गाथिनः एतन्नामकस्य ऋषेः स्वभूतं साम ॥ ३ ॥

बार्हदुक्थे द्वे ॥ ४ ॥

अग्निरुक्थे पुरोहितः (सा. ४८) इत्यत्र सामद्वयोत्पत्तिः । अग्निरुकथाइ (ग्राम. २.५.४८.१) इति मन्द्रस्वरादिकं प्रथमम् । अग्निरुक्था औहोहोहाइ (ग्राम. २.५.४८.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते उभे बाहदुक्थे बृहदुक्थनामकेन दृष्टे सामनी ॥ ४ ॥

पौरुमीढं च ॥ ५ ॥

अग्निमीडिष्वावसे (सा. ४९.) इत्यत्रैकं सामोत्पन्नम् । अग्निमी (ग्राम. २.५.४९.१) इति मन्द्रचतुर्थादिकं साम पौरुमीढम् । पुरुमीढेन दृष्टम् ॥ ५॥

कार्णश्रवसं प्रास्कण्वं वा ॥ ६ ॥

श्रुधि श्रुत्कर्ण (सा. ५०) इत्यत्रैकं साम जातम् । श्रुधी (ग्राम. २.५.५०.१) इति तृतीयद्वितीयादिकं कर्णश्रयसम् । कर्णश्रवा नाम ऋषिः तेन दृष्टम् । अत्र ऋषिविकल्पः । अथवा प्रास्कण्यम् प्रस्कण्वेन दृष्टम् ॥ ६॥