पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (१)

ब्रह्मवर्चस्यं श्रुताध्ययनजन्यं तेजः ब्रह्मवर्चसं, [तस्मै हितम् । ] स्मात स्मृतयः, अधीतानां वेदानां स्मरणानि तद्धेतुभूतम् । आयु यम् आयुष्करम् । एवमस्य ब्राह्मणाध्ययनस्य अनुष्ठानौपयिकस्य स्वातन्त्र्येण स्वर्गादिफलानां प्राप्ति धनत्वात् पुरुषप्रवृत्तिः सिद्धचतीत्यर्थः ॥ ३ ॥

अस्य ब्रामणस्याध्ययने किंचिद्धर्ममाह --

प्राक्प्रातराशिकमित्याचक्षते ॥ ४ ॥

प्रातराशः प्रातर्भोजनं, ततः प्रागेवाध्यया यस्य तत् [प्राक] प्रातगशिकन् । तथाविधमे तद् ब्राह्मणम् इत्याचक्षते कथयन्ति ब्रह्मवादिनः ॥ ४ ॥

उक्तं स्वातन्त्र्यफलवत्त्वं संवादेन द्रढयति ---

तदप्येवमाहुर्य इदमुपधारयत एकैकस्य ऋषेः दिव्यं वर्षसहस्रमतिथिर्भवति । अभिनन्दितः प्रतिनन्दितो मानितः पूजितस्ततः स्वाध्यायफलमुपजीवतति ॥ ५ ॥

तत्र पूर्वोक्तविषये ब्रह्मवादिनोऽप्येवमाहः । किमिति तदुच्यते । योऽध्येता इद मृषीणां नामधेयगोत्रादिकमुपधारयति स दिव्यं र्षमहस्त्रं धुसंबन्धि देवानां वर्षसहस्रम् । अत्यन्तसंयोगे द्वितीया । तत्कालपर्यन्तमेकैकस्य ऋपे: अतिथिर्भवति । ऋषिभिरभिनन्दितः उपलालितः । प्रतिनन्दितः प्रतिक्षणं नन्दितः । [मानितः] आार्ध्यादिभिः सत्कृतः । पूजते