अष्टमः खण्डः
श्यावाश्वं चर्तुषामणी च यामं च ॥१.८.१॥
आ जुहोता हविषा मर्जयध्वम् (सा. ६३) इत्यत्रैक सामोत्पन्नम् । आजुहोता (ग्राम. २. ७. ६३. १) इति चतुर्थमन्द्रादिकं श्यावाश्वं श्यावाश्वेन ऋषिणा दृष्टम् । चकारा वक्ष्यमाणापेक्षाः । चित्र इच्छिशोस्तरुणस्य. वक्षथः (सा. ६४) इत्यस्यां सामद्वयमुत्पन्नम् । ओइ चित्रइच्छाइशोस्तरुणा (ग्राम. २. ७. ६४. १) इति क्रुष्टद्वितीयादिकमाद्यम् । चित्राए (ग्राम. २. ७. ६४. २) इति मन्द्रादिकं द्वितीयम् । ते द्वे च [ऋतु] सामनी ऋतुर्नाम ऋषिस्तस्य स्वभूते सामनी । इदं त एकं पर उ त एकम् (सा. १. ६५) इत्यत्रैकं साम । ओहा। हहाइ । इदंतए (ग्राम. २. ७. ६५. १) इति तृतीयचतुर्थादिकं साम यामं यमदेवताकम् ॥ १ ॥
अग्नेश्चार्षेयम् ॥ १.८.२॥
इमं स्तोममहते जातवेदसे (सा. ६६) इत्यतैकं सामोत्पन्नम् । [इम स्तोमाम्] इति तृतीयद्वितीयादिकम् अग्नेराषयम् । अस्य सानोऽमिद्रष्टेत्यर्थः ॥ २ ॥
अत्र ऋषिनामभेदेन विकल्पं दर्शयति -
कौत्सं वा यज्ञसारथि वा ॥ १.८.३ ॥
वा-शब्दः पक्षान्तरद्योतनार्थः । एतत्साम कौत्सं कुत्सनाम्ना ऋषिणा दृष्टम् । यद्वा यज्ञसारथिनामधेय भवति । यज्ञस्य ज्योति