३४ आर्षेयब्राह्मणम्
टोमादेः सारथिरिव तिष्ठति । तद्वत् प्रणायकं भवतीत्यत एव तस्य नाम युक्तम् ॥ ३॥
अग्नेर्वैश्वानरस्य सामनी द्वे ॥ १.८.४ ॥
मूर्धानं दिवो अरतिं पृथिव्या (सा. ६७) इत्यत्र सामद्वयमुत्पन्नम् । मूोहोहाइ (ग्राम. २. ७. ६७. १) इति मन्द्रचतुर्थादिकमाद्यम् । होवाइ । मुद्धोहाइ (ग्राम. २. ७. ६७. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे वैश्वानराख्यस्य अनेः स्वभूते सामनी ॥ ४ ॥
आश्वे द्वे ऐटते वा ॥ १.८.५ ॥
वि त्वदापो न पर्वतस्य पृष्ठाद् (सा. ६८.) इत्यत्र सामद्वयोत्पत्तिः । वित्वत् । ओहाइ (ग्राम. २. ७. ६८. १) इति चतुर्थादिकमाद्यम् । हा। ययाइदिवोहाइवित्वद् (ग्राम. २.४.७. ६८. २) इति मन्द्रतृतीयादिकं द्वितीयम् । ते उभे आश्वे अश्वशब्दोपेते । एतन्नामधेये सामनी भवतः । एतन्मन्त्रवर्णनिबन्धनं नाम वा । अथवा ऐटते इटतो नाम ऋषिः तेन दृष्टम् (प्टे?) ॥ ५॥
वामदेव्यं च रौद्रं वा ॥ १.८.६॥
आवो राजानम् (सा. ६९) इत्यत्रैक साम । आवो राजा (ग्राम. २. ७. ६९. १) इति चतुर्थमन्द्रादिकं वामदेव्यं वामदेवनामकेन ऋषिणा दृष्टम् । वामदेवाड्डयड्डयौ (पा. ४. २. ९) इति दृष्टं सामेत्यर्थे ड्यत्प्रत्ययः । अत्रैव देवताभेदेन मन्त्रशब्देन वा विकल्पः । वा अथवा रौद्रं रुद्रदेवताकं रुद्रशब्दोपेतं वा साम ॥ ६॥