पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (८) ३५


वैश्वज्योतिषे द्वे ॥ १.८.७ ॥

इन्धे राजा समर्यो नमोभिः (सा. ७०) इत्यत्र सामद्वयमुत्पन्नम् । इन्धाइ (ग्राम. २. ७. ७०. १) इति तृतीयद्वितीयस्वरादिकम् [आद्यम् । हौहो। [होहो । ] हौहोइ । इन्धेराजासमोनमोभीः (ग्राम. २. ७. ७०. २) इति क्रुष्टद्वितीयादिकं साम द्वितीयम् । ते द्वे [वैश्वज्योतिष] । विश्वज्योतिरित्यग्नेर्वाचकः । ऋषेर्वा ॥ ७ ॥

यामे द्वे ॥ १.८.८॥

प्र केतुंना बृहता याग्निः (सा. ७१) इत्यस्यां सामद्वयोत्पत्तिः । प्रकेतुना (ग्राम. २. ७. ७१. १) इति द्वितीयकृष्टम्वरादिकमाद्यम् । हा । हा औहोइ । प्राके (ग्राम. २. ७. ७१. २) इति मन्द्रद्वितीयतृतीयादिकम् । ते उभे यामे । यमो नाम पार्थिवोऽग्निः । तद्देवताके ॥ ८ ॥

इन्द्रस्य वैराजे द्वे ॥ १.८.९॥

अग्निं नरो दीधितिभिः (सा. ७२) इत्यत्र सामद्वयमुत्पन्नम् । हउहाउहाउ । अग्नीम् (ग्राम. २. ७.७२.१) [इति मन्द्रचतुर्थादिकमाद्यम् । हाउहाउहाउ। अग्नीम् । नराः। दी (ग्राम. २. ७. ७२. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते उभे इन्द्रस्य संबन्धिनी वैराजे विराट्छन्दस्कोपेते एतन्नामधेये भवतः । एतत् छन्दोनिबन्धनं नाम ॥ ९ ॥

अत्रैव ऋषिनामादिभेदेन बहून् कल्पान् दर्शयति -

वसिष्ठस्य वा प्रजापतेर्वा राशिमराये मरायराशिने वा स्फार्तिकरणे वा च्यावने वा शैखण्डिने वैन्वके वा ॥१.८.१०॥