पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः


पाथे च ॥१.१०.१॥

अग्न ओजिष्ठमाभर (सा. ८१) इत्यत्र सामद्वयमुत्पन्नम् । आमाओवा (ग्राम. २. ९. ८१. १) इति क्रुष्टद्वितीयादिकमाद्यम् । अग्नेहाउ (ग्राम. २. ९. ८१. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे. पाथे पथिशब्दयुक्ते सामनी । रात्सि वाजाय पन्थाम (मा. ८१) इति सान्नि विद्यमानत्वात् । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ ५ ॥

बृहच्चाग्नेयम् ॥ १.१०.२॥

यदि वीरो अनु व्याद् (सा. ८२) इति अत्र सामैकमुत्पन्नम् । यदिवीरोअनुष्यात् (ग्राम. २. ९. ८२. १) इति तृतीयचतुर्थस्वरादिकम् आग्नेयम् तत् बृहन्नामकम् अमिदेवताकं साम ॥ २ ॥

यामं च ॥ १.१०.३ ॥

त्वेषस्ते धूम ऋण्यति (सा. ८३) इत्यत्र सामैकम् । त्वेषास्ते धूमऋण्वतिहाउ (ग्राम. २. ९. ८३. १) इति द्वितीयक्रुष्टदिकं साम यामम् । यमः पार्थिवोऽग्निः । तद्देवताकम् ॥ ३ ॥

बृहच्चैवाग्नेयम् ॥ १.१०.४॥

त्वं हि क्षैतवद्यशः (सा. ८४ ) इत्यत्र सामैकम् । त्वहितवद्यशः । ईयइयाहाइ (ग्राम. २. ९. ८४. १) इति चतुर्थमन्द्रादिकम् आग्नेयम् अमिदेवताकम् । एतद्देवताकं बृहच्चैव बृहन्नामकमेव ॥ ४ ॥