पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४

एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

नमस्कारादिना अर्चितः सन् तत एवमृषिपूजानन्तरं च स्वाध्यायफलं नियमपूर्वमधीतवेदफलमुपजीवति लभते । इतिशब्दः संवादसमाप्त्यर्थः ॥ ५ ॥

          ऋष्यादिज्ञानमवश्यं कर्तव्यमित्यत्र ब्राह्मणान्तरं संवादयति -  

अथापि ब्राह्मणं भवति - "यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यति प्र वा मीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति श्रेयान् भवति । अयातयामान्यस्य छन्दांसि भवन्ति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्" इति ॥ ६ ॥

     यो ह वै यः खलु अविदितार्षेयच्छन्दोदैवतब्राह्मणेन आर्षेयमृषिसंबन्धि परिज्ञानं, छन्दो गायत्र्यादि, दैवतम् अग्न्यादिकं, ब्राह्मणं विनियोजकवाक्यम् । एतानि आर्षेयादीनि अविदितानि अज्ञातानि यस्य तादृशेन मन्त्रेण याजयति वाध्यापयति वा स याजकोऽध्यापयिता वा स्थाणुं स्थावरतां वा ऋच्छति प्राप्नोति । गर्तं वा श्वभ्रं वा पद्यति गच्छति । स्थाणुत्वं गर्तपातो वा तस्य प्राप्नो (भव?) तीत्यर्थः । अथ वा प्रमीयते म्रियते। मृङ् (मीञ् ?) हिंसायामिति धातुः । एवमार्षेयादिकमजानानो याजकोऽध्यापको वा पापीयान् भवति निकृष्टतरो भवति ॥