४० आर्षेयब्राह्मणम्
बृहतश्च कौमुदस्य साम ॥ १.१०.५॥
प्रातरग्निः पुरुप्रियः (सा. ८५) इत्यत्र सामैकं जातम् । प्रातरग्नाइः पुरुप्रियाः (ग्राम. २. ९. ८५. १) इति मन्द्र.तिस्वारमन्द्रादिकं कौमुदस्य । कुमुदो नाम ऋषिः तदपत्यस्य बृहतः एतन्नामकस्य ऋषेः संबन्धि साम ॥ ५॥
अग्नेर्यद्वाहिष्ठीये द्वे यन्मंहिष्ठीये वा ॥ १.१०.६ ॥
यद्वाहिष्ठं तदग्नये (सा. ८६) इत्यत्र सामद्वयम् । यद्वाहिष्ठंतदा (ग्राम. २. ९. ८६. १) इति चतुर्थमन्द्रादिकमाद्यम् । यद्वाहिष्ठंतदग्नये । यद्वाहिष्ठो वा (ग्राम. २. ९. ८६. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे अग्नेः यद्वाहिष्ठीये यद्वाहिष्ठशब्दयुक्ते । एतन्नामके सामनी । यद्वाहिष्ठशब्दात् मतौ छः सूक्तसाम्नोः (पा. ५. २. ५९) इति मत्वर्थीयश्छः । वा अथवा एते एव सामनी यन्मंहिष्ठीये यन्मंहिष्ठशब्दोपेते एतन्नामधेये भवतः । पक्षान्तरापेक्षायां विकल्पः । क्वचित्प्रयोगे एवमभिगीयते ॥ ६ ॥
अग्नेर्विशोविशीयमैडं वा शार्ङ्गम् ॥ १.१०.७ ॥
विशोविशो वो अतिथिम् (सा. ८७) इत्यस्यामेकम् । विशोविशोहिम् (ग्राम. २. ९. ८७.१) इति मन्द्रस्वरादिकम् अग्नेर्विशोविशीयं विशोविशशब्दोपेतम् एतन्नामकम् । एतदग्निना दृष्टम् । तथा च ब्राह्मणम् – विशोविशीयं भवति । अग्निरकामयत । विशोविशोऽतिथिः स्याम् ।