प्रथमः अध्यायः (१०) ४१
विशोविश आतिथ्यमश्नुवीयति । स तपोऽतप्यत । स एतद्विशोविशीय. मपश्यत् (तां ब्रा. १४. ११.३७-३८) इति । अथवा ऐडं वा शार्ङ्गम् । विट्शब्देन पुष्टिरभिधीयते । पुष्टि विशः (ऐ.आ.१.१.६) इति ऐतरेयारण्यकम् । अन्न हि पुष्टिः । ऐडम् इडान्तयुक्तं शाङ्गम् एतन्नामकम् ॥ ७ ॥
अथ स्तुतिपरत्वेन विकल्पः -
प्रजापतेश्च कनीनिके द्वे । अत्रेर्वा ॥ १.१०.८ ॥
बृहद्वयो हि भानवे (सा. ८८.) इत्यत्र सामद्वयमुत्पन्नम् । बृहद्वयाः (ग्राम. २. ९. ८८. १) इति मन्द्रस्वरादिकं प्रथमम्। बृहद्वयोहिभानावाइ (ग्राम. २.९.८८.२) इति मन्द्रमन्द्रादिक द्वितीयम् । ते उभे प्रजापतेः स्वभूते कनीनिकानामधेये सामनी । वा अथवा अत्रेः संबन्धिनी सामनी ॥ ८॥
श्रौतर्वणं च ॥ १.१०.९॥
अगन्म वृत्रहन्तमम् (सा. ८९.) इत्यत्र सामैकम् । अगन्मवृ । नाहान्तामाम् (ग्राम. २. ९. ८९. १) इति मन्द्रादिक श्रौतर्वणं श्रुतर्वच्छब्दयुक्तमेतन्नामकं साम ॥ ९॥
कश्यपस्य च स्वयोनीन्द्रस्य चेन्द्रियमिन्द्रस्य वा प्रियम् ॥ १.१०.१० ॥
जातः परेण धर्मणा (सा. ९०) इत्यत्र सामैकं जातम् । जातः परेणधा (ग्राम. २. ९. ९०.१) इति द्वितीयादि] स्वरयुक्तं कश्यास्य