पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (१२) ४७

अग्नेयजिष्ठो अध्वराए (ग्राम. ३. ११. १००. १) इति मन्द्रादिकं प्रथमम् । अग्ने । इयाईया (ग्राम. ३. ११. १००. २) इति मन्द्रद्वितीयादिकं द्वितीयम् । अमईया ओवा (ग्राम. ३. ११. १००. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । एतानि त्रीणि प्रजापतेः संबन्धीनि सदोहविर्धाननामधेयानि सामानि । किं कस्य सद:संज्ञा ? कस्य हविर्धानसंज्ञा ? किं सर्वेषां सदोहविर्धाननामधेयानि ? इति शङ्कां निरसितुमाह-सदः पूर्वम् । हविर्धाने उत्तरे इति । तेषां मध्ये प्रथमं सद:संज्ञ साम। उत्तरे द्वितीयतृतीये हविर्धाननामधेये॥ ४॥

त्वष्टुरातिथ्यम् ॥ १.१२.५॥

जज्ञानः सप्त मातृभिः (साम. १०१) इत्यत्रैक साम । जज्ञानः सा (ग्राम. ३. ११. १०१. १) इति मन्द्रस्वरादिकं त्वष्टुः स्वभूतमातिथ्यमतिथ्यह-(र्थ ?) मेतन्नामकं साम । अतिथेयेः (यः?) (पा. ५. ४. २६) इति ण्य-(व्य?) प्रत्ययः ॥ ५ ॥

अदितेश्व साम ॥ १.१२.६॥

उत स्या नो दिवा मतिः (सा. १०२) इत्यत्रैक साम । [उतस्यानोदिवामतीः] (ग्राम. ३. ११. १०२. १) इति मन्द्रद्वितीयादिकम् अदितेः स्वभूतम् एतन्नामकम् । वाक्यभेदार्थश्चकारः ॥ ६ ॥..