पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (१)

अपि चास्य छन्दांसि छन्दःसंयुक्तान्यधीत वेदवाक्यानि यातयामानि गतसानि नीर्वीयाणि भवन्ति । स्मृतिश्च भवति --

अविदित्वा ऋषिच्छन्दोदैवतं योगमेव वा ।

योऽध्यापयेज्जपेद्वापि पापीयान् स तु जायते ॥ इति ॥

इत्थं विपक्षे बाधकमुपन्यस्य अथ तत्परिज्ञानबलान्याह – अथ यो मन्त्र इत्यादिना छन्दांसि भवन्तीत्यन्तेन । अथ- शब्दः पूर्वोत्तरफलक्षण्यघोत नार्थः । यो याजको [अध्यापको] वा मन्त्रे मन्त्रे प्रतिमन्त्रं आर्षेयच्छन्दोदैवतानिब्राह्मणेन वेद जानाति सर्वं संपूर्णम् वर्षशतं आयुः जीवनलक्षणमेति प्राप्नोति । श्रेयान् प्रशस्यतमश्च भवति । अस्य वेदितुश्छन्दांसि अयातयामानि अगतसाराणि भवन्ति । यस्मादेवं तस्मादेतानि आर्षेयच्छन्दोदैवतब्राह्मणानि मन्त्रे मन्त्रे प्रतिमन्त्रं विद्यात् जानीयात् ॥ ६ ॥

इत्थं ब्राह्मणार्थाणपरिज्ञाने दोषं तत्परिज्ञाने च फलमुक्ता अथ। तद्वेदि [तुः] ऋषिब्राह्मणादिसालोक्यं पुनर्जन्मनि जातिस्मरत्वं [च] आह--

ऋषीणां सस्थानः भवति । स्थानः भवति ब्रह्मणः । स्वर्गे लोके भवति। स्मरन्नाजायते पुनः । य एवं वेद ॥ ७ ॥

सान्नामार्षेयं नाम एवं वक्ष्यमाणप्रकारेण यो वेद जानाति स ऋषीणां