त्रयोदशः खण्डः
इन्द्रस्य प्र मंहिष्ठीयानि चत्वारि । वसिष्ठस्य वासितं वैषां तृतीयम् ॥१.१३.१॥
प्र मंहिष्ठाय गायत (सा. १०७) इत्यत्र चत्वारि सामान्युत्पन्नानि । प्रम हाइष्ठायगायता (ग्राम. ३. १२. १०७.१) इति मन्द्रद्वितीयादिकं प्रथमम् । प्रमरहिष्ठाय (ग्राम. ३. १२. १०७.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । प्रमरहिष्ठायगा (ग्राम. ३. १२. १०७.३) इति तृतीयचतुर्थादिकं तृतीयम् । प्रमरहिष्ठाय (ग्राम. ३. १२. १०७. ४) इति चतुर्थमन्द्रादिकं तुरीयम् । एतानि चत्वारि इन्द्रस्य संबन्धीनि । प्रमाहिष्ठीयानि प्रमंहिष्ठशब्दयुक्तानि एतन्नामधेयानि । एषां सानामिन्द्रसंबन्धित्वं ब्राह्मणे श्रूयतेप्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वजं प्रावर्तयत् (ता. बा. १२. ६. ५.-६) इति । अत्र नामान्तरम् । अथवा वसिष्ठस्य प्रमंहिष्ठीयानि सामानि । एषां मध्ये तृतीयस्य नामान्तरं दर्शयति - आसिनं वैषां तृतीयम् । इति । एषां मध्ये तृतीयं त्रित्वसंख्यापूरकम् आसितम् असितो नाम ऋषिः तत्संबन्धि । तथा ब्राह्मणम् -- आसितं भवति । असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् (तां. बा. १४. ११. १८-१९) इति ॥१॥
भरद्वाजस्य वाजभृद्वाजाभृद्वा वाजाभर्मीयं वा ॥१.१३.२॥