पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ आर्षेयब्राह्मणम्

क्रुष्टादिकमाद्यम् । तमिन्द्रां वाजयामसि हाउ (३. १. ११९. २) इति द्वितीयक्रुष्टादिकं द्वितीयम् । ते द्वे पार्थस्य पृथा नाम - ऋषिः, तदपत्यस्य तन्वस्य एतन्नामकस्य सामनी । अथवा अनयोर्मध्ये उत्तरं द्वितीयमाङ्गिरसस्य अङ्गिरसः पुत्रस्य दावसोः- एतत्संज्ञकस्य ऋषेः साम । अत्र ब्राह्मणम् दावसुनिधनं भवति (ता. बा. १५. ५. १२) इत्यादि । दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत् (ता. ब्रा. १५. ५. १४) इति । तमिन्द्रं वाजयामसीए (ग्राम. ३. १. ११९. ३) इति मन्द्रमन्द्रादिकं तृतीयम् । औहोइहुवाहोइ । तमिन्द्रं वाजायामसि (ग्राम. ३. १. ११९. ४) इति द्वितीयतृतीयादिक चतुर्थम् । ते द्वे वसिष्ठस्य निवेष्टौ द्वौ एतन्नामधेये भवतः । विशेष्यस्य पुंलिङ्गत्वाद्विशेषणं द्वाविति पदं तल्लिङ्गमेवेति न विरोधः । अथवा अनयोर्मध्ये उत्तरं तुरीयम् इडानां संक्षारः एतन्नामकम् ॥ ६॥

शार्यातानि त्रीणि ॥ २.१.७॥

त्वमिन्द्र बलादधि (सा. १२०) इत्यत्र सामत्रयम् । हाउत्वमिन्द्रा (ग्राम. ३. १.१२०.१) इति मन्द्रादिकं प्रथमम् । त्वमिन्द्रबलादधीए (ग्राम. ३.१.१२०.२) इति मन्द्रादिकं द्वितीयम् । स्वमिन्द्रबलादधिसहसाः (ग्राम ३.१.१२०.३) इति चतुर्थमन्द्रस्वरादिकं तृतीयम् । एतानि त्रीणि शार्यातानि । शर्यातेः स्वभूतानि । तेन दृष्टानि ॥ ७ ॥