पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः

सौपर्णानि त्रीणि शारुप्रवेतसानि वा विलम्बसौपर्ण वैषां तृतीयम् ॥२.२.१॥

उद्धेदभि श्रुतामघम् (सा. १२५) इत्यत्र सामत्रयम् । उद्धेदभ्यो- वा (ग्राम. ३.२.१२५.१) इति मन्द्रचतुर्थादिकमाद्यम् । उद्धेदभिश्रुता- माघाम् (ग्राम. ३. २. १२५. २) इति मन्द्रमन्द्रादिकं [द्वितीयम् ] । उद्धे- दभिश्रुतामघम् । ईयइयाहाइ (ग्राम. ३. २. १२५. ३) इति मन्द्रचतुर्थादिक [तृतीयम् ] | एतानि त्रीणि सामानि सौपर्णानि सुपर्णसंबन्धीनि । सुपर्णो नाम ऋषिः । अथवा शारुप्रवेतसानि शा(श ?)रुप्रवेतसः एतन्नामकस्य ऋषेः स्वभूतानि एतेन दृष्टानि । अथवा एषां मध्ये तृतीयम् अन्तिमं साम विलम्ब- सौपर्णनामकम् । अत्र ब्राह्मणम् विलम्बसौपर्ण भवति । आत्मा वा एष सौपर्णानाम् इत्यादि । पक्षावेतावभितो भवतो ये सप्तमनवमयोवीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा। पक्षौ विलम्बते । तस्मा द्विलम्बसौपर्णम् (ता. बा. १४.९.१९-२०) इति ॥ १ ॥

शाकलम् ॥२.२.२॥

यदद्य कच्च वृत्रहन् (सा. १२६) इत्यत्रैक साम । यदद्यकाच्च (ग्राम. ३.२.१२६.१) इति चतुर्थमन्द्रादिक शकलनाम्ना ऋषिणा दृष्टम् । शकलशब्दाद् दृष्टं सामेत्यर्थे अण् । अस्य शकलसंबन्धित्वं ब्राह्मणे श्रूयते शाकलं भवति । एतेन वै शकलः पञ्चमेऽहनि प्रत्यतिष्ठत् । प्रतितिष्ठति (तां ब्रा. १३. ३.९-१०) इति ॥ २ ॥