आर्षेयवाह्मणम्
मौहो। इन्द्रा (ग्राम. ४.२. १३२. ४) इति मन्द्रचतुर्थादिक तुरीयम् । वयामौहोवाहाइ । इन्द्रा (ग्राम. ४. २. १३२. ५) इति तृतीयद्वितीयादिकं पञ्चमम् । एते द्वे भरद्वाजस्येवादारसृती एतन्नामके एव ।। ८ ।।
ऐध्मवाहानि त्रीणि ऐध्महाराणि वा ॥२.२. ९ ॥
आ घा ये अग्निमिन्धते (सा. १३३) इत्यस्यां सामत्रयमुत्पन्नम् । आघाये अग्निमिन्धताइ (ग्राम, ४.२.१३३. १) इति मन्द्रचतुर्थादिकं प्रथमम् । आघायइहा (ग्राम. ४.२.१३३. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । औहो आघायाए (ग्राम. ४. २. १३३.३) इति मन्द्रादिकं तृतीयम् । एतानि त्रीणि ऐध्मवाहानि इध्मवाहसंबन्धीनि एतन्नामकानि सामानि । अथवा ऐध्महाराणि इध्महारसंबन्धीनि एतन्नामानि । इध्म [नो वहने] वा हरणे वा एतानि सामानि विनियुक्तानि इत्यर्थः ॥ ९॥
अहे: पैड्वस्य सामाहेध्मो (हिघ्नोो?) वा पैड्वस्य पैल्वस्य वा ॥ २.२.१० ॥
भिन्धि विश्वा अप द्विषः (सा. १३४) इत्यस्यां सामैकम् । भि । ध्योहाइ (ग्राम. ४. २. १३४.१) इति मन्द्रचतुर्थादिकं पैड्वस्याहेः साम [वा अथवा आहेध्मो (अहिघ्नो!) पैड्वस्य पैल्वस्य वा साम] ॥ १०॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥