तृतीयः खण्डः
ऐषं च ॥२.३.१॥
इहेब शृण्व एषाम् (सा. १३५) इत्यत्रैक साम । इहेवाशृण्व- एषाम् (ग्राम. ४. ३. १३५. १) इति द्वितीयक्रुष्टादिकम् ऐपम् एषेति पदयुक्तम् , पतन्नामकम् ॥ १॥
पौषं च ॥ २.३.२॥
इम उ त्वा विचक्षते (सा. १३६) इत्यस्यामेकं साम। इम- उत्वाविचक्षते (ग्राम. ४. ३. १३६.१) इति चतुर्थतृतीयादिक वा पौष पूषदेवताकम् , एतत्संज्ञकम् ।। २ ।।
मारुतं च संवेशीयम् । सिन्धुषाम वा ॥ २.३.३ ॥
समस्य मन्यवे विशः (सा. १३७) इत्यस्यामेक साम । समस्या- मा (ग्राम. ४. ३. १३७.१) इति क्रुष्टद्वितीयादिक मरुतां स्वभूत संवेशीयं संवेशशब्दयुक्तमेतन्नामकम् । अथवा सिन्धुषाम । सिन्धुर्नाम ऋषिः ॥ ३ ॥
हाविष्मते द्वे । हाविष्कृते द्वे ॥२.३.४॥
देवानामिदवो महत् (सा. १३८) इत्यत्र समचतुष्टयम् । अत्र देवा । नाम् (ग्राम. ४. ३. १३८.१) इति मन्द्रादिकं प्रथमम् । हाउदेवा- नामिदवोमहद्धाउ (ग्राम. ४. ३. १३८.२) इति मन्द्रादिकं द्वितीयम् । एते द्वे हाविष्मते हविष्मन्नामाङ्गिरा ऋषिः । तेन दृष्टे । देवानामिदवोहाउमा- हात् (ग्राम. ४. ३. १३८. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । देवानामिदवो-