पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (१)

वेदितव्यं फलं चोपन्यस्य यत् प्रतिपाद्यमथ तत् प्रतिजानीते -

अथात उपदेशः ॥ १० ॥ अथ - शब्दः प्रकृतब्राह्मणानन्तर्यार्थः । अतः शब्दो हेत्वर्थः । यत एतद्राह्मणाध्ययनमन्तरेण साम्नामार्षेयनामानि न ज्ञायन्ते अतो हेतोस्तेषामुपदेशः कियत इति शेषः ॥ १० ॥

अथ प्रणवस्य वेदत्रयसारत्वादादावन्ते च सर्वत्र प्रयोक्तव्यत्वाच्चाङ्गरूपत्वेन च साम्नामादौ प्रयोक्तव्यत्वात् ओमित्युद्गायतीत्युद्गानरूपतया गानाञ्च तस्य तावदार्षेयं नाम दर्शयति ----

ओमिति एतत् परमेष्ठिनः प्राजापत्यस्य साम । परमेष्ठिनो वा ब्राह्मणस्य ब्रह्मणो वा ब्रह्मवाचो वा ॥ ११ ॥

ओमित्येतत् प्राजापत्यस्य प्रजापतिर्हरिस्तत्पुत्रस्य परमेष्ठिनः संबन्धि साम । अनेन दृष्टत्वात् परमेष्ठिनः सामेत्यर्थः। अथवा ब्राह्मणस्य ब्राह्मणः (ब्रह्मा ?) सर्वजगत्कारणं परमात्मा तस्य पुत्त्रस्य परमेष्ठिनः स्वभूतं साम । यद्वा ।