पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ आर्षेयब्राह्मणम्


रैणवे द्वे वैणवे वा । शाक्वरवर्णं वैनयोः पूर्वम् । औदले द्वे । वीङ्कं वैनयोः पूर्वम् ॥ २.५.६ ॥

सुरूपकृत्नुमृतये (सा. १६०) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र सरू (ग्राम. ४. ५, १६०.१) इति चतुर्थमन्द्रादिकम् । सुरूहाहाउ (ग्राम. ४. ५.१६०. २) इति मन्द्रस्वरादिकम् । एते द्वे रैणवे एतन्नामधेये भवतः । यद्वा चैणवनामधेये । अथवा एतयोः साम्नोः पूर्वमादिमं साम शाक्वरवर्णसंज्ञम् । सुरूपकुत्नमृतायाइ (ग्राम. ४. ५. १६०.३) इति द्वितीयतृतीयादिकम् । सुरूपक (ग्राम. ४. ५. १६०. ४) इति चतुर्थमन्द्रा- दिकम् । एते द्वे सामनी औदले एतत्संज्ञे भवतः । उदलो वा एतेन वैश्वामित्र (ता. ब्रा. १४. ११. ३४) इति हि ब्राह्मणम् । यद्वा एनयोः पूर्व वीङ्कनामधेयम् ॥ ६ ॥

आर्षभानि त्रीणि । सैन्धुक्षितानि वा बाध्यश्वानि वा ॥२.५.७॥

अभि त्वा वृषभा सुते (सा. १६१) इत्यत्र सामनयमुत्पन्नम् । अभित्वा वृषभासुताइ (ग्राम. ५. ५. १६१.१) इति मन्द्रचतुर्थादिकम् । अभिन्वा वृषभासुते अभ्याहाउ (ग्राम. ५. ५. १६१. २) इति मन्द्रस्वरा- दिकम् । अभित्वा वृषभासुते । सुतं सृजोवा (ग्राम. ५. ५. १६१. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि सामानि आर्षभानि । यद्वा सैन्धुक्षितानि वाध्यश्वानि वा । वाध्यश्चो नाम ऋषिः ॥ ७ ॥

कोत्से द्वे । पाञ्चवाजे वा दाशवाजे वा ॥ २.५.८॥

य इन्द्र चमसेष्वा (सा. १६२) इत्यत्र सामद्वयमुत्पन्नम् । याही- न्द्रा (ग्राम. ५. ५. १६२. १) इति तृतीयद्वितीयादिकम् । यइन्द्रचामासे- पुवा (ग्राम. ५. ५.१६२.२) इति मन्दमन्द्रादिकम् । एते द्वे कौत्से । कुत्सो नाम ऋषिः । यद्वा पाश्चवाजे पतन्नामधेये । अथवा दाशवाजे एतत्संज्ञे भवतः ॥ ८॥