पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ द्वितीयः अध्यायः (५)

सौमेधानि त्रीणि । पूर्वतिथानि वा पौर्वातिथानि वा ॥२.५.९॥

योगेयोगे तवस्तरम् (सा. १६३) इत्यत्र सामत्रयमुत्पन्नम् । योगे- योगेतवस्ताराम् (ग्राम. ५. ५, १६३. १) इति चतुर्थमन्द्रादिकं प्रथमम् । योगेयोगेतवस्ताराम् (ग्राम. ५. ५.१६३ २) इति मन्द्रमन्द्रादिकं द्वितीयम् । योगेयोगेतवाहाउस्तागम् (ग्राम. ५. ५. १६३. ३) इति मन्द्रचतुर्थादिकं [तृतीयम् ] । एतानि त्रीणि सामानि सौमेधानि । सुमेधा नाम ऋषिः । अपि वा पूर्वतिथानि । पौर्वातिथानि वा पूर्वतिथिसंबन्धीनि ॥ ९ ॥

दैवातिथं च मैधातिथं वा ॥ २.५.१०॥

आ त्वोता नि षीदत (सा.१६४) इत्यस्यामेकं साम । आतू । एतानि (ग्राम. ५.५.१६४.१) इति तृतीयद्वितीयादिकं दैवातिथं [देवातिथेः] स्वभूतम् । सपुत्रोऽशनायंश्चरन्नरण्य (तां. बा. ९.२.१२ ) इत्यादि ब्राह्मणमनुसंधेयम् । वा अथवा [ मैधातिथं ] मेधातिथिर्नाम ऋषिः तेन दृष्टम् ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥